________________
सारोद्वारे सटीके
द्वितीयः खण्ड:
आहगदि ४ मंज्ञा गाथा
पन्यासः १, उच्यते, इह सर्वत्र सूत्रे यत्र कचित्संझी असंझी वा परिगृह्यते तत्र सर्वत्रापि प्रायो दीर्घकालोपदेशेन गृह्यते, न हेतुवादोपदेशेन नापि दृष्टिवादोपदेशेन । तत एतत्संप्रत्ययार्थ प्रथमं दीर्घकालोपदेशेन संझिनो ग्रहणम् , उक्तं च"सन्नित्ति असन्नित्ति य सब्बसुए कालिओवएसेणं । पायं संववहारो कीरइ तेगाइओ स कओ। "
ततोऽनन्तरमप्रधानत्वात् हेतूपदेशेन संज्ञिनो ग्रहणम् , ततः सर्वप्रधानत्वादन्ते दृष्टिवादोपदेशेनेति ॥९२२॥१४४॥ इदानीं 'सन्नाओ चउरो' ति पश्चचत्वारिंशदुत्तरशततमं द्वारमाह--
आहार १ भय २ परिग्गह ३ मेहुण ४ रुवाओ हुँति चत्तारि ।
सत्ताणं सन्नाओ आसंसारं समग्गाणं ॥९२३॥ 'आहार' गाहा, संज्ञानं संज्ञा-आभोगः, सा द्विधा-क्षायोपशमिकी औदयिकी च । तत्राद्या ज्ञानावरणक्षयोपशमजन्यमतिभेदरूपा, सा चानन्तरमेवोक्ता । द्वितीया पुनः सामान्येन चतुर्विधाऽऽहार संज्ञादिलक्षणा, तत्र क्षुद्वेदनीयोदयाद् या कवलाद्याहाराद्यर्थ तथाविधपुद्गलोपादानक्रिया सा आहारसंज्ञा, तस्या 'आभोगात्मिकत्वात् , सा पुनश्चतुर्भिः कारणैः समुत्पद्यत्ते, यदुक्तं स्थानाङ्गे
___ "चउर्हि ठाणेहि आहारसन्ना समुप्पज्जइ, तंजहा- ओमकोड्याए छुहावेयणिज्जस्स कम्मस्सुदएणं मईए तदट्ठोवओगेणं" [सू.३५६] ति । १ आमोगात्मक. सं.॥२ ओमकु. मु. । स्थानाङगेऽपि ओमको इति पाठः ॥
प्र.आ. २७३
॥१६॥