SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १४४ द्वारे प्रवचनसारोद्धारे सटीके क्यादि द्वितीयः खण्डः साम्प्रतं हेतु वादोपदेशसंज्ञया संज्ञिनमसंज्ञिनं चाह-"जे उण' गाहा, 'पारण' गाहा, ये पुनः सश्चिन्त्य सश्चिन्त्येष्टानिष्टेषु-छाया-ऽऽतपा-ऽऽहारादिषु विषयवस्तुषु मध्ये स्वदेहपरिपालनातोरिष्टेषु वर्तन्ते, अनिष्टेभ्यस्तु तेभ्य एव निवर्तन्ते. प्रायेण च साम्प्रतकाल एव, न चापि-नैव दीर्घकाले-अतीताऽनागतलक्षणे, प्रायोग्रहणात् केचिदतीता-ऽनागतकालावलम्बिनोऽपि नातिदीर्घ कालानुसारिणः ते द्वीन्द्रियादयो हेतुपादोपदेशसंज्ञया संज्ञिनो विज्ञेयाः । अत्र च निश्चेष्टा:-धर्माद्यमितापेऽपि तन्निराकरणाय प्रवृत्तिनिवृणिविरहिताः पृशिरसाद समाज्ञिनो भवन्ति ।। इदमुक्तं भवति-यो बुद्धिपूर्वकं स्वदेहपरिपालनार्थमिष्टेप्वाहारादिषु वस्तुषु प्रवर्तते, अनिष्टेभ्यश्च निवर्तते स हेतूपदेशसंज्ञौ । स च द्वीन्द्रियादिरपि वेदितव्यः । तथाहि-इष्टानिष्टविषयप्रवृत्तिनिवृत्तिसञ्चि- न्तनं न मनोव्यापारमन्तरेण सम्भवति । मनसा च पर्यालोचनं संज्ञा । सा च द्वीन्द्रियादेरपि विद्यते। तस्यापि प्रतिनियतेष्टानिष्टविषयप्रवृत्तिनिवृत्तिदर्शनात् । ततो द्वीन्द्रियादिरपि हेतूपदेशसंज्ञया संज्ञी लभ्यते । नवरमस्य सश्चिन्तनं प्रायो वर्तमानकालविषयम् , न भूत-भविष्यद्विषयमिति, नायं दीर्घकालोपदेशेन संझी । यस्य पुनर्नास्त्यभिसन्धारणपूर्विका प्रवृत्तिनिवृत्तिशक्तिः स प्राणी हेतुवादोपदेशेनाप्यसंज्ञी लभ्यते, स च पृथिव्यादिरेकेन्द्रियो वेदितव्यः । तस्याभिसन्धिपूर्वकमिष्टानिष्टप्रवृत्तिनिवृत्त्यसम्भवात् । या अपि च आहारादिका दश संज्ञाः पृथिव्यादीनामप्यत्र वक्ष्यन्ते प्रज्ञापनायामपि च प्रतिपादितास्ता अप्यत्यन्त गाथा ९१८| ९२२ प्र.आ. २७२ ॥१५॥ १ जेणेत्यादिगाथाद्वयं-खं. ॥ २ द्रष्टव्य प्रज्ञापनासू. पर / सू.७२५
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy