________________
प्रवचन -
सारोद्धारे
सटीके
द्वितीयः खण्ड:
॥१५५॥
मपि यत्र देशोनसप्रज्ज्प्रमाणमिदं व्यवहारतस्तत्रापि प्रत्येकं सप्तरज्जूप्रमाणता दृश्या । तदेवं व्यवहारनयमतेनायाम- विष्कम्भ बाहल्यैः प्रत्येकं सप्तरज्जुप्रमाणो घनो जायते । एतच पट्टिकादौ लिखित्वा भावनीयमिति ॥ ९१३ --९१४।।
इदानीं घनीकृतस्य लोकस्य रज्जूसख्यां प्रतिपादयितुमाह - ' तिणि' इत्यादि, सर्वस्मिन्नपि चतुरज्ज्वात्मके लोके कृते त्रिचत्वारिंशदुत्तराणि त्रीणि शतानि रज्जूनां भवन्ति । अथ घनीकरणे की संस्थानी लोकः सम्पद्यते ? तत्राह - 'उस होइ जयं' चतुरस्र - सर्वतः समचतुरस्र जगत्लोको भवति । संवर्तितं सदिति शेषः । इयं च त्रिचत्वारिंशदुत्तरशतत्रयलक्षणा रज्जूसङ्ख्या सप्तानां घनेन 'समत्रिराशिहतिर्धन' इतिवचनादन्योऽन्यं त्रिस्ताडनेन जायते । एतदुक्तं भवति - संवर्तितस्य लोकस्यायाम विष्कम्भवाल्यानां प्रत्येकं सप्तरज्जूमानत्वात् सप्त सप्तकेन गुण्यन्ते जाता एकोनपञ्चाशत्, साऽपि पुनः सप्तकेन गुण्यते जातानि त्रीणि शतानि त्रिचत्वारिंशानीति ।
एतच्च व्यवहारमाश्रित्योक्तम्, निश्श्यतस्तु एकोनचत्वारिंशदधिकशतद्वय सङ्ख्यानामेव घनरज्जून सम्भवात् । तथाहि-षटपञ्चाशत्सङ्ख्यास्वपि पङ्क्तिषु 'तिरीयं चउरो दोस्र" इत्यादिगाथाकथितानि चतुरादीनि प्रतरखण्डकानि एकैकपक्तिगतानि पृथक्पृथग्वर्ग्यन्ते । 'सदृशद्विराशिघातो वर्ग' इतिवचनात् चतुष्कादयोऽङ्काश्चतुष्कादिभिरेव गुण्यन्ते इत्यर्थः । जाताः षोडशादयोऽङ्काः । तेषां च सर्वमीलने पञ्चदश सहस्राः yorare च द्वे शते खण्डकानां भवन्ति । अस्य च राशेर्धनरज्जू समानयनाय चतुःषष्ट्या भागो हियते । ततो जायन्ते' एकोनचत्वारिंशदधिकद्विशतसङ्ख्या एव घनरज्जव इति । उक्तं च१ ०ते - मु. ॥
१४३ द्वारे लोकखण्डकादि
गाथा
९०२
९१७
प्र. आ.
२७०
॥१४५॥