________________
200L
प्रवचन सारोद्धारे सटीके "द्वितीयः
लोकखण्डकादि गाथा ९०२.
सप्तम्यामपि पृथिव्यां पूर्वोक्तखण्डकेभ्यः परत उभयपाययोरेकै खण्डकं प्रतिपङ्क्ति तावद्भवति यावत्सधिस्तनी पङ्क्तिरिति । तदेवमधोलोके ऊर्धाधोभावेन खण्ड कान्युक्तानि ॥९०९॥
अथ तमस्तमःप्रभाया आरम्य रत्नप्रभा यावत्प्रतिपृथिवि तियवस्खण्डकामाणमाह-"अडवीसा' गाहा, सप्तम्या-तमस्तमःप्रभायां नरकपृथिव्यामष्टाविंशतिः खण्डकानि तिर्यग्भवन्ति । तत्र त्रसनाडया बहिरेकपा द्वादश द्वितीयपार्वेऽपि द्वादश सनाडीमध्ये च चत्वारीति । तमःप्रभायां षडविंशतिः खण्डकानि, चत्वारि मध्ये बहिर्भागयोश्चैकादशैकादशेति । धृमप्रभायां चतुर्विंशतिः, चत्वारि मध्ये उभयपार्श्वयोश्च दश दशेति । पङ्कप्रभायां विंशतिः, मध्ये चत्वारि बहिर्भागयोश्चाष्टाष्ट्राविति । वालुकाप्रभायां पोडश, मध्ये चत्वारि उभयपार्श्वयोश्च षट् षडिति । शर्कराप्रभायां तिर्यग्दश खण्डकानि, चत्वारि मध्ये दक्षिण-वामभागयोश्च त्रीणि त्रीणीति । रत्नप्रभायां च प्रसनाडीमध्यगतान्येव चत्वारि तिर्यक्खण्डकानीत्येवं सप्तस्वपि नमस्तम:प्रभाद्यास प्रथिवीप तिर्यक्तिस्वीनखण्डकानां-कल्पित चतरनाकारनभोभागरूपाण परिमाणसङ्ख्यानं समवसेयमिति ॥९१०॥
- अथ सकलस्थापि लोकस्य खण्डकसर्वसङ्ख्यामाह-'पञ्चे' त्यादि, पश्च शतानि द्वादशोत्तराणिद्वादशाधिकानि खण्डकानां 'हे'त्ति अधोलोके भवन्ति । तथाहि-'अडवोसा' इत्यादिगाधोक्तान अष्टाविंशत्याद्यवान् मीलयित्वा प्रतिपृथिवि अष्टाविंशति-षड्विंशत्यादि वण्डकसङ्खयोपेतपकिनचतुष्टयमझाबाच्चतुर्भिगुणयेत् , ततो जायन्ते पश्च शतानि द्वादशोत्तराणीति । 'अह उद' ति, अथ-अधोलोकादनन्तरमूर्ध्वम्-ऊर्ध्वलोके त्रीणि शतानि चतुर्भिरभ्यधिकानि खण्डकानां भवन्ति । 'तिरियं चउरो दोसु' भट्ठावीसे' त्यादि-मु.॥
प्र.आ.