________________
प्रवचनसारोद्धारे सटीके
१४३द्वारे लोकखण्डकादिगाधा ९०२
द्वितीयः खण्ड :
॥१५॥
प्र.
आ.
द्वादश खण्डकानि । ततोऽपि तिसृषु पक्तिषु दश दश खण्डकानि । ततोऽपि तिमृषु पस्तिषु अष्टावष्टौ खण्डकानि । तदनु द्वयोः पङ्क्त्योः षट् पट् खण्डकानि । ततोऽपि साधारेवतिन्धोद्वयोः पत्योर्नाडीमध्यगतान्येव चत्वारि चत्वारि खण्डकानि भवन्तीति । इत्थं तावन्निजगुरुप्रदर्शितस्थापनानुसारतो रुच. कादारभ्य लोकान्तं यावत् 'तिरियं चउरो दोसु' इत्यादिगाथाद्वयं व्याख्यातम् । अपरे तु वैपरीत्येन पट्टे षु स्थापना पश्यन्त एतद्गाथाद्वयं लोकान्तादारभ्य लोकमध्यं यावद्वयाख्यानयन्तीति ।।९०॥
अथाधोलोके सप्तस्वपि पृथिवीषु ऊर्धाधोभावेन खण्डकान्याह--'ओयरिये' त्यादि, अवतीर्य लोकान्ताल्लोकमध्यं समागत्य ततो लोकमध्याद्-रुचकलक्षणादारभ्य मर्वत्र-सर्वासु पृथिवीषु वसनाडीमध्ये ऊर्धाधोभावेन चत्वारि चत्वारि खण्डकानि ज्ञातव्यानि । सनाड्यान्तु बहिद्वितीयाद्यासु पृथिवीषु यथाक्रमं खण्डकानां त्रिकं त्रिकं द्विकं द्विकमेकैकं च खण्डकं तावद् विज्ञेयं यावत् सप्तमी पृथ्वी ।
इयमत्र भावना-रत्नप्रभायां तावत् सनाड्याः यहिः खण्डकानामभाव एव । ततः शर्कराप्रभाया उपरितनतलादारभ्य दक्षिण-वामभागयोः प्रतिपङ्क्ति तिरश्चीनानि त्रीणि त्रीणि खण्डकानि तावदृधिोभावेन ज्ञेयानि यावत्सप्तमपृथिव्या अधस्तनो भागः । ततो वालुकाप्रभाया उपरितलादराभ्य उभयपाश्चयोः खण्डकत्रयात्पुरतः पुनरपि त्रीणि त्रीणि खण्डकानि तावदवसेयानि यावत्मप्तमी पृथिवी । ततः पङ्किप्रभाया उपरितलादारभ्य द्वयोः पार्श्वयोः पूक्तिखण्ड केभ्यः परतो द्वे द्वे खण्डके तावदधगन्तव्ये यावत्सप्तमी पृथिवी । ततः पुनरपि धृमप्रभाया आरभ्य पार्श्वद्वयेऽपि द्वे द्वे खण्डके तावद्भवतो यावत्सप्तमी पृथिवी । ततो भूयोऽपि तमःप्रभाया आरभ्य पार्श्वद्वयोस्तावदेकै खण्डकं स्थापनीयं यावत् सप्तमी पृथिवी । ततः
...
11१५०॥
PRASHARE