________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय
खण्ड:
॥१३५॥
आख्यायिका निता यथा कथास्वसंभव्यभिधानम् ९ | तथा उपघातान्निसृता चौरस्त्वमित्याद्यसदस्या ख्यानमिति १० । ८६२||
कम
अथ तृतीयभाषायाः सत्यामृवाया भेदानाह - 'उपपन्ने 'त्यादि, उत्पन्नमिश्रितादिभेदात्सल्यापा भाषा दशधा भवति । इह च मध्यस्थितस्य 'मीसय' त्ति पदस्य सर्वत्रापि सम्वादुत्पन्नमिश्रिता विगतमिश्रितेत्यादि द्रष्टव्यम् । ततश्च उत्पन्नमिश्रिता अनुत्पन्नैः सह सङ्ख्यापूरणार्थं या सा उत्पन्नमिश्रिता एवमन्यत्रापि यथायोगं भावनीयम् तत्रोत्पन्नमित्रिता ग्रामे नगरे वा न्यूनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अस्मिन्नद्य जाता इत्यादि । व्यवहारतः सत्यामृषात्वाद् अस्याः । श्वस्ते शतं पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव च मृषात्वव्यवहारात् १। तथा एवमेव मरणकथने विगतमिश्रिता । यथा अस्मिन्नद्य दश वृद्धा विगता इत्यादि २ | तथा जन्मनो मरणस्य च कृतपरिमाणस्याभिधाने विसंवादने च मिश्रकमिश्रिता उत्पन्नविगतमिश्रितेत्यर्थः । यथाstore दश दारका जाता दश च वृद्धा विपन्ना इति ३ ।
तथा प्रभूतानां जीवत स्तोकानां च मृतानां शङ्ख शङ्खनकादीनामेकत्र राशौ दृष्टे यदा कश्विदेवं वदतिअहो महान् जीवराशिरयमिति तदा सा जीवमिश्रिता । सत्यामृषात्वं चास्या जीवत्सु सत्यस्यान्मृतेषु मृषास्वात् ४ | तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिदेवं वदति - अहो महानयं मृतो जीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्यामृषात्वं मृतेषु सत्यत्वात् जीवत्सु च मृषात्वात् ५ । तथा तस्मिन्नेव राशौ एतावन्तोऽत्र जीवन्ति एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसंवादे जीवाजीवमिश्रिता ६ ।
१३९ द्वारे
भाषा
चक
गाधा
८६०
८६५
प्र. आ.
२६३
॥१३५॥