________________
प्रवचनसारोद्वारे सटीके
द्वितीय खण्ड:
॥१३३॥
वा एकामगुलिमङ्गीकृत्य इस्वत्वं दीर्घत्वं च प्रतिपाद्यत ततो विरोधः सम्भवेत् , एकनिमित्तत्वे परस्परविरुद्धकार्यद्वयासम्भवात् । यदा त्वेकामधिकृत्यहस्वत्त्वं गामधिकृत्य दीर्घन्वं तदा सच्चा-ऽसत्त्व योरिव भिन्ननिमित्तत्वान्न परस्पर विरोवः । अथ यदि ताचिके हस्वत्वदीर्घत्वे तत ऋजुत्व-वक्रत्वे इव कस्मात्ते भाषा'निरपेक्षे न प्रतिभासेते ?, तस्मात्परोपाधिकत्वात्काल्पनिके हमे इति । तदुक्तम् , द्विविधा हि वस्तुनो धर्माः-सहकारिव्यङ्गवरूपा इतरे च । तत्र ये सहकारिव्यङ्गयरूपास्ते सहकारिसम्पर्कवशात्प्र
गाथा तीतिपथमायान्ति, यथा पृथिव्या जलसम्पर्कतो गन्धः, इतरे वेवमेवापि यथा कपूरादिगन्धः । हस्वत्वदीर्घत्वे 'अपि च सहकारिव्यङ्गयरूपे, ततस्ते तं तं सहकारिणमासाद्याभिव्यक्तिमायात इत्यदोषः ६।
८९५ तथा व्यवहारतो-लोकविवक्षातः सत्या व्यवहारसत्या । यथा गिरिर्दह्यते, गलति भाजनम् , अनु- प्र. आ. दरा कन्या, अलोमिका एडका, लोको हि गिरिगततृणादिदाहे तृणादिना सह गिरेरभेदं विवक्षित्वा गिरिदह्यते इति ब्र ते । भाजनादुदके प्रति उदकभाजनयोरभेदं विवक्षित्वा गलति भाजनमिति । सम्भोगजबीजप्रभवोदराभावेऽनुदरेति, लवनयोग्यलोमाभावेऽलोमिकेति । ततो लोकव्यवहारमपेक्ष्य साधोरपि तथा अवतो व्यवहारसत्या भाषा भवति ।
तथा भावतो वर्णादि स्वरूपान् सत्या भावसत्या | किमुक्तं भवति ?-यो भावो वर्णादियस्मिन्नुस्कटो भवति तेन या सत्या भाषा सा भावसत्या । यथा सत्यपि पञ्चवर्णसम्भवे शुक्लस्यैव वर्णस्योत्कटत्वाद्वलाका शुक्लेति ८ ।
॥१३३।। १ परनिर मु.॥ २ मपि स० मु.सि.॥ ३ ०स्वरूपा-मु. तुलना-धर्मसंग्रहवृत्तावपि स्वरूपात् इति ।