SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ वचन रोद्धारे | टीके तथा सकललोकसम्मत्येन सत्यतया प्रसिद्धा सम्मतसत्या । यथा कुमुद कुबलयोत्पल-तामरसान समानेऽपि पङ्कसम्भवे गोपालादीनां सम्मतमरविन्दमेव पङ्कजं न शेषमित्यरविन्दे सम्मततया पङ्कजशब्दः सत्य:, कुवलयादावसत्योऽसम्मतत्वादिति २ । तथा स्थापनासत्या या तथाविधमङ्कविन्यासं मुद्राविन्यास चोपलभ्य प्रयुज्यते, यथा एककं १३२ ॥ पुरतो बिन्दुद्वय सहितमुपलभ्य शतमिदमिति चिन्दुत्रयसहितं सहस्रमिदमिति । तथा तथाविधं मुद्राविन्यासमुपलभ्य मृत्तिकादिषु 'मासोऽयं कार्षापणोऽयमिति । यद्वा यल्लेप्यादिकर्म अर्हदादिविकल्पेन स्थाप्यते सा स्थापना, तद्विषये सत्या स्थापनासत्या । यथाऽजिनोऽपि जिनोऽयम्, अनाचार्योऽप्याचार्योऽयमिति ३ । तथा नामतः - अभिधानमात्रेण सत्या नामसत्या, यथा कुलमवर्धयन्नपि कुलवर्धनः धनमवर्धयन्नपि धनवर्धनः, अयक्ष यक्ष इति ४ । तथा रूपतो- रूपापेक्षया सत्या रूपसत्या । यथा दम्भतो गृहीतप्रवजितरूपः प्रब्रजितोऽयमिति ५ । तथा प्रतीत्य- आश्रित्य वस्त्वन्तरं सत्या प्रतीत्यसत्या । यथा अनामिकायाः कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य हृस्वत्वम्, न asi restar par दीर्घत्वं च तावकं परस्परविरोधादिति । भिननिमित्तत्वे परस्परविरोधासम्भवात् । तथाहि तामेव यदि कनिष्ठ मध्यम १. माषकोऽयं इति दश वृत्तौ पाठः ५ २०८ ॥ ॥ २ व्यां इति धर्मसं वृत्तौ ॥ १३९द्वारे भाषा चतुष्कम् गाथा ८९०० ८.९५ प्र. आ. २६२ ॥१३२॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy