________________
प्राचन
सारोद्धारे सही फै
॥१२६॥
?
तत्र प्रथमपुटपfeat मिक्ष पान्यादिभ्यः, द्वितीयपुटपतित भिक्षा काकादिभ्यः तृतीयपुटभिक्षां च मत्स्यादिजलचारिभ्यो दत्वा राग-द्वेषादिरहितश्चतुर्थपुटभिक्षां स्वयमभुङ्क्त । एवं द्वादश वर्षाणि बालतपः कृत्वा पर्यन्तसमये मासमेकमनशनमादाय मृत्वा च चमरचश्चार्या चमरेन्द्रो बभूव । उत्पन्नव तदाव धिज्ञानेनेतस्ततः पश्यन्नूर्व सौधर्मावतंस के विमाने सौधर्मेन्द्रं दृष्ट्वा क्रुद्धः सुरानवोचत् - अरे कोऽयं दुरात्माप्रार्थित प्रार्थको मम शिरसि स्थित एवं विलसतीति १, तेऽप्यृचुः अयं हि पूर्वमवाजितैः पुण्यैः सर्वातिशायिसमृद्धिपराक्रमः सौधर्माधिपः शक इति । एतच्च श्रुत्वाऽधिकतरं क्रुद्धः स्वपरिवारनिवारितोऽपि युयुत्सुः शिक्षयाम्येनमवज्ञाकारिणमिति वदन् परिघमादाय स हि शक्तः श्रूयते ततः कथमपि तत्पराजितोऽहं कं शरणं प्रपत्स्ये १ इति विचिन्त्य स सुमारपुरे प्रतिमास्थितस्य श्रीमहावीरस्य समीपमागमत् । तत्र च प्रणामपूर्वकं भगवंस्तव प्रभावेण चत्रिणं जेष्यामीति विभु विज्ञप्य लक्षयोजनमानमतित्रिकृतं निजवपुर्विधाय परिघप्रहरणं परितो भ्रमयन् गर्जनास्फोटयन त्रिदशान् त्रासयन् दर्पान्धः सौधर्मेन्द्रं प्रति समुदपतत् । तत एवं पादं सौधावतंसक विमानवेदिकायामपरं सुधर्मायां निधाय परिनेन्द्रकी त्रिस्ताडयित्वाऽनेकशः शक्रमाक्रोशयामास । शक्रोऽप्यवतितं विदित्वा कोपाज्जावल्यमानः स्फारस्फुरत्स्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच । चमरोऽपि पृष्ठतो दम्भोलिमायान्तमवलोकितुमप्यक्षमः श्रीमहावीरं शरणं प्रपित्सुर्वपुर्विस्तरमुपसंहृत्य त्वरिततरं पलायिष्ट । समासनी भूतकुलिशव शरणं शरणमिति ब्रुवाणः सूक्ष्मीभूय स्वामिपादयोरन्तरे प्राविशत् । शक्रोऽप्यर्हदादिनिश्रामन्तरेण नासुराणा१ तत्राव० मु । २ व्प्रार्थितो- मु. ॥ ३ शिरः स्थितः मुः ॥ ४ तसं ॥ ५ लोकयितु० मु. ॥1
१३८ द्वारे आश्चर्यदशकम्
गाथा
८८५.
८८९
प्र. आ. २६०
॥ १२६॥