SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके १३८ द्वारे आश्चर्यदशकम् বাঘা ॥१२४॥ ८८९ नृपप्रयोजनं निष्पन्नप्रायं न्यवेदयत् । सचिवोऽपि तवृत्तान्तनिवेदनेन नृराजमरञ्जयत् । ततः प्रभाते परिव्राजिका वनमालामादाय नृपमन्दिरमगमत् । राजाऽप्यनुरागवशतस्तामन्तःपुरे निक्षिप्य तया सममसमं संसारसुखमन्वभूत् । ___ इतश्च धोरककुविन्दोऽपि वनमालामनवलोकमानो हा प्रिये वनमाले ! क्य गताऽसीत्यायनेकप्रकार प्रलपन्नुन्मत्त इव च त्रिकचत्वरादिषु परिभ्रमन्नेकदा नृपतिनिकेतनान्तिकमभ्यगात् , भूपालोऽपि वनमाला सहितस्तथाविकृताकारं शून्यमानसं हा वनमाले इत्यादिपलापिनं तमवेक्ष्य व्यचिन्तयन-अहोऽस्माभिरुभयलोकविरुद्धमतिनिघृणं कर्म समाचरितं सर्वथाऽप्यस्माकं नरकऽप्यवस्थानं नास्तीत्यादि बह्वात्मानं निन्दतोस्तयोः सहसैवाकाशात्तडित्पतित्या प्राणान् जहार । मृत्वा च तौ परस्परस्नेहवशात् शुभध्यानाच्च हरिवख्येि तृतीये क्षेत्रे मिथुनरूपिणो हरिहरिणोनामकावुत्पन्नौ । तत्र च कल्पपादपसम्पादितसमीहितौ सततमवियुक्तों सुखेन विलसन्तौ तस्थतुः। वीरककुविन्दोऽपि तयोमृत्युमवगत्य त्यक्तग्रहिलभावो दुम्तपमज्ञानतपः किमपि कृत्वा मृत्वा च सौधर्मकल्पे किल्विपिकसुरः समुत्पेदे । अवधिना च निजं पूर्वभवं हरि-हरिणीनामको च पूर्व भववैरिणी विलोक्य तत्कालोत्पन्नरोषारुणेक्षणः क्षणमचिन्तयत्-इह हरिवपक्षेत्रे क्षेत्रानुभावादेव तायवध्यौ मृतौ चावश्यमेव देवलोकं ब्रजिष्यतस्ततो दुर्गतिनिबन्धने अकालेऽपि मरणप्रदे नयाम्यन्यत्र स्थानान्तरे इति विनिश्चित्य तावुभावपि कल्पतरुभिः सह ततः क्षेत्रादपहृत्य भरतक्षेत्रे चम्पापुर्यामानैषीत् । १ नृपराज० मु.॥ २०क्तौ परस्परस्नेह वशान सुचिरं विलसन्तौ-मु।। ।। ३ वीरकुविन्दो० मु. ॥ ४ ततो मृत्वा-सं. ॥ प्र. आ. २५८ ॥२४॥ .. .....32
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy