________________
प्रवचनसारोद्वारे सटीके
आश्चर्यदशकम्
।।१२२॥
८८५. ८८१ प्र.पा.
तदानीं च तत्र चम्पायाँ पुर्यामुद्याने समवसृतं मुनिसुव्रतजिनं कपिलनामा वासुदेवस्तत्समीपमासीनः स्वामिन् ! कस्यायं ममेव शलस्वनः श्रूयते १, इति 'पप्रच्छ, भगवानपि समग्रं द्रौपदीवृत्तान्तमाख्यत् । ततः कपिलो जम्बूद्वीपभरतार्धाधिपतेरभ्यागतस्य स्वागतिको भवामीति भगवन्तमपृच्छत् । ततो भगवता यथैकत्र न द्वितीयोऽहन्न चक्रभृन्न च विष्णुरुत्पद्यते तथा कारणागतोऽपि नान्येनमिलतीत्युक्तोऽपि कपिल: कौतुकात् कृष्णदिदृक्षया जलधितटे जगाम । दृष्टवाश्चाम्भोधिमध्ये' व्रजतो विष्णो रथध्वजान् । ततः कपिलनामा वासुदेवस्त्वां द्रष्टुमुत्कण्ठितोऽहमिहागतस्तद्वलस्वेति स्पष्टाक्षरं शङ्खमवादयत् । कृष्णोऽपि वयमतिदूरं गतास्ततस्त्वया न किञ्चिद्वाच्यमिति व्यक्ताक्षरं शङ्खध्वनिना तं प्रतियोध्य क्रमेण स्वस्थान प्राप्त इति ५। ___ तथा कौशाम्ब्यां नगर्या समवसृतस्य भगवतः श्रीमद्वधमानविभोर्वन्दनार्थ पश्चिमपौरुष्यामवतरणम्आकाशात्समवसरणभुवि समागमनं युगपच्चन्द्र-सूर्ययोः शाश्वतविमानस्थितयोर्बभूव इदमप्याश्चर्यमेव । अन्यदा हि उत्तरबैंक्रियविमानेनैबावतरत इति ।
तथा हरेः-पुरुषविशेषस्य वंशः-पुत्रपौत्रादिपरम्परा हरिवंशः, तल्लक्षणं यत्कुलं तस्योत्पत्तिहरिवंशकु लोत्पत्तिः । कुलं घनेकधा ततो हरिवंशेन विशेष्यते । एतदपि च पूर्वमभूतवादाश्चर्य मेवेति । श्रूयते हि इहैव जम्बूद्वीपभरतक्षेत्रे कौशाम्ब्या नगयां सुमुखो नाम भूपतिरभूत् । एकदा च विचित्रविलासवसतौ वसन्तस१ पप्रष्ट-सं. ॥ २ यथैकत्र द्वितीयोहन चक्रभृन्न तथा विष्णुरपि न भवति, तथाकारणादागतोऽपि-मु. ३ ०ध्येनमु.॥ ४ श्रीवर्धक मुः ॥ ५ हि-सं. नास्ति ॥
॥१२॥