SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रवचन १३८ द्वारे सारोद्धारे। ॥१२१॥ वस्य पूर्वसङ्गतसुरेणापहृत्य समर्पिता तथा तवाप्यहमर्पयामि यद्वा तं सबलवाहन मम्भोनिधिमध्ये क्षिप्त्वा तामानयामीत्यादि बहु जल्पितवान् । कृष्णोऽप्यभाषत-नायं यशस्करः पन्थाः । ततः पाण्डवानां ममाषि च षण्णां स्थानामम्मोधिमध्येन मार्गमव्याहतं कुरु येन स्वयमेव तत्र गत्वा तं च युधि विनिर्जित्य द्रुपदतनयामानयाम इति । सुस्थितेन च तथैव कृते श्रीपतिः पञ्चभिः पाण्डवैः सह द्विलक्षयोजनप्रमाणमपि जलधि स्थलमियोल्लङ्घन्यापरकङ्कापुरीपरिसरोद्याने च स्थित्वा प्रथमं दारुकाख्यदुतप्रेपणेन द्रौपदीमयाचत् । पद्मोऽपि स तत्रैव वासुदेवः इह त्वात्मषष्ठोऽप्यसौ मम न किश्चित् , ततो गत्वा युद्धाय स्वस्वामिनं सज्जयेति सगर्वमभिधाय युयुत्सुः ससैन्यः सन्नह्य तदेवोद्यानमागमत् । विष्णुरपि दारुकवचनश्रवणाद् द्विगुणीभूतरोषस्तं ससैन्यमापतन्तमालोक्य शङ्खमापूर्य तद्ध्वनिना सेनात्रिभागमनाशयत् । ततः शास्किालनजनितध्वनिनाऽपि सैन्यत्रिभागे नाशिते पद्मनाभनृपोऽवतिष्ठमानतृतीयांशबलो रणाङ्गणान्नंष्ट्वा निजपुरीमध्ये प्रविश्य गोपुराणि पिहितवान् । कृष्णोऽपि सक्रोधं स्थादवतीयं नृसिंहरूपधारी नितान्तं 'तर्जनिजपाद. दर्दनः पुरमपातयन् । ततः पद्मनाभो भयव्याकुलः क्षम्यता २ देवि ! 'रक्ष मामस्मात्कृष्णादिति वदन द्रौपदी शरणमगमत् । तयाऽपि मां पुरस्कृत्य विधाय च स्त्रीवेषं शाङ्गिणमेव शरणं व्रजेत्युक्तः स तथा कृतवान् । कृष्णोऽपि द्रौपदी पाण्डवानामर्पयित्वा तेनैव पथा रथारूढः प्रतिनिवृत्तः । আশ্বর্য दशकम् गाथा ८८५. ८८१ प्र. आ. २५८ १ मम्मोधि० खं. सं. ॥ २ शङगा० सं. ॥ ३ गर्ज ० मुः। ४ भयव्याकुलितः-मु.॥ ५ रक्ष २-मु.॥ ६ ममस्मात्क्रुद्धा
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy