SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥१२०॥ ततो मया सह स्वेच्छया तुच्छान् भोगान् भुङ्क्ष्वेति । द्रौपद्यपि च तद्वचः श्रुत्वा तत्कालसमुत्पन्नमतिः मासमध्ये यदि मदीयः कोऽपि इह नागमिष्यति तदा त्वदीयं समीहितं करिष्यामीत्यवोचत । राज्ञाऽपि जम्बूद्वीपजुषां पुरुषाणामत्रागमनमसंभवीति विमृश्य तद्वचः प्रत्यपद्यत । इतश्च पाण्डवाः प्रभाते द्रौपदीमपश्यन्तः सादरं सर्वत्रान्वेषणेऽपि तद्वमप्यलभमानाः समग्रमपि वृत्तान्तं वासुदेवाय न्यवेदयन् । वासुदेवोऽपि 'किंकर्तव्यतामूढो यावदास्ते तावदस्मान्नारदमुनिस्त स्वयंकृतमनर्थमवलोकयितुमाजगाम । सर्वत्राप्यस्खलितप्रचारं सञ्चरता भवता किं क्वापि द्रौपदी दृष्टेति कृष्णेनानुयुक्तः स उक्तवान् घातकीखण्डे 'अपरकङ्कायां नगर्यां गतेन मया पद्मनाभ नृपसमनि द्रौपदी erfe धायान्यतोऽगमत् । ततः कृष्णः पद्मनृपतिना द्रौपदी हृता, एषोऽहं तामिहानेष्यामीति मा मनागपि खेदं विदध्वमिति पाण्डवान् समाश्वास्य महापृतनापरिवृतः पाण्डवैः सह दक्षिणाम्भोनिधितटनिकटमभ्यगात् । पाण्डवा अप्यत्यन्तभीषणमपारं पारावारमवलोक्य स्वामिन्नयं मनसाऽप्यलङ्घयः कथं लङ्घनीय इति विष्णु ं व्यजिज्ञपन् । विष्णुरपि न काचिचिन्ता भवद्भिर्विधेयेति तानुक्त्वाऽष्टमतपसा सुस्थितनामानं लवणसमुद्रस्वामिनममरमाराधयामास । अथाविभूय देवेन किं करोमीत्युक्ते विष्णुश्वदत् - सुरश्रेष्ठ ! पद्मनाभनृपत्यपहता घातकीखण्डद्वीपाद् द्रौपदीद्रुतमेव यथा समानीयते तथा कुर्विति । देवोऽपि यथा पद्मनाभपार्थि१ मासमध्ये खं. सं. ॥। २ इतिकर्तव्यता० खं. सं. ॥ ३ ०इमर० मु ॥ ४ नृपस्य सद्मनि मु• ॥ ५ माय सोऽन्यतो-सु. ॥ ६ ०.सं. ॥ ११३८ द्वा आर्य दशकम् गाथा ८८५ ८८९ प्र. आ. २५८ ॥१२०॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy