________________
प्रवचन
सारोद्वारे
सटीके
॥१२०॥
ततो मया सह स्वेच्छया तुच्छान् भोगान् भुङ्क्ष्वेति । द्रौपद्यपि च तद्वचः श्रुत्वा तत्कालसमुत्पन्नमतिः मासमध्ये यदि मदीयः कोऽपि इह नागमिष्यति तदा त्वदीयं समीहितं करिष्यामीत्यवोचत । राज्ञाऽपि जम्बूद्वीपजुषां पुरुषाणामत्रागमनमसंभवीति विमृश्य तद्वचः प्रत्यपद्यत ।
इतश्च पाण्डवाः प्रभाते द्रौपदीमपश्यन्तः सादरं सर्वत्रान्वेषणेऽपि तद्वमप्यलभमानाः समग्रमपि वृत्तान्तं वासुदेवाय न्यवेदयन् । वासुदेवोऽपि 'किंकर्तव्यतामूढो यावदास्ते तावदस्मान्नारदमुनिस्त स्वयंकृतमनर्थमवलोकयितुमाजगाम । सर्वत्राप्यस्खलितप्रचारं सञ्चरता भवता किं क्वापि द्रौपदी दृष्टेति कृष्णेनानुयुक्तः स उक्तवान् घातकीखण्डे 'अपरकङ्कायां नगर्यां गतेन मया पद्मनाभ नृपसमनि द्रौपदी erfe धायान्यतोऽगमत् ।
ततः कृष्णः पद्मनृपतिना द्रौपदी हृता, एषोऽहं तामिहानेष्यामीति मा मनागपि खेदं विदध्वमिति पाण्डवान् समाश्वास्य महापृतनापरिवृतः पाण्डवैः सह दक्षिणाम्भोनिधितटनिकटमभ्यगात् । पाण्डवा अप्यत्यन्तभीषणमपारं पारावारमवलोक्य स्वामिन्नयं मनसाऽप्यलङ्घयः कथं लङ्घनीय इति विष्णु ं व्यजिज्ञपन् । विष्णुरपि न काचिचिन्ता भवद्भिर्विधेयेति तानुक्त्वाऽष्टमतपसा सुस्थितनामानं लवणसमुद्रस्वामिनममरमाराधयामास । अथाविभूय देवेन किं करोमीत्युक्ते विष्णुश्वदत् - सुरश्रेष्ठ ! पद्मनाभनृपत्यपहता घातकीखण्डद्वीपाद् द्रौपदीद्रुतमेव यथा समानीयते तथा कुर्विति । देवोऽपि यथा पद्मनाभपार्थि१ मासमध्ये खं. सं. ॥। २ इतिकर्तव्यता० खं. सं. ॥ ३ ०इमर० मु ॥ ४ नृपस्य सद्मनि मु• ॥ ५ माय सोऽन्यतो-सु. ॥ ६ ०.सं. ॥
११३८ द्वा आर्य
दशकम्
गाथा
८८५
८८९
प्र. आ.
२५८
॥१२०॥