________________
प्राचनभोला सटीके ।
१३१ द्वारे उपधिधावनकाल: गाथा
'अप्पत्ते च्चिय' गाहा, 'अप्राप्त एव-अनायाते एव, वर्षे-वर्षाकालान्मनागक्तिने काले इत्यर्थः जलादिसामग्र्यां सत्यामुत्कर्पतः सर्वमुपधिम् - उपकरणं यतनया यतयः प्रक्षालयन्ति । उदकस्य-जलस्य पुनरसति-अभावे जघन्यतोऽपि पात्रनिर्योगोऽवश्यं प्रक्षालनीयः । इह निस्पूर्वो युजिरुपकारे वर्तते, 'उक्तं च पाठोदूखले-'निज्जोगो 'उवयारो [ ] इति । तत्र नियुज्यते--उपक्रियतेऽनेनेति नियोगः उपकरणम् , पात्रस्य निर्योग पात्रनियोगः-पात्रोपकरणं पात्रकान्धादिः, उक्तं च
"पत्तं पत्ताधो पायडवणं च णायकेसरिया । पडलाई रयत्ताणा गोच्छओ पायनिज्जोगो ॥ १॥" [ओघनि, ६७४, पञ्चव. ७७२] इति ।
आह-किं सर्वेषामेव वस्त्राणि वर्षाकालादर्वागेव प्रक्षात्यन्ते ? किं वाऽस्ति केपाश्चिद्विशेषः ?, अस्तीति अमः, १८६४॥ केषामिति 'चेदत आह–'आयरिये'त्यादि, आचार्या:-प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनादिगुणग्रामभूरयः सूरयः, आचार्यग्रहणमुपलक्षणं तेनोपाध्यायादीनां प्रभूणां परिग्रहः, तेषाम् । तथा ग्लाना-मन्दास्तेषां च पुनः पुनर्मलिनानि २ वस्त्राणि प्रशालयेत् , प्राकृतत्वाच्च मलिनानीत्यत्र सूत्रे पुस्त्वनिर्देशः, प्रस्तुतेऽर्थे कारणमाह--'मा हु' इत्यादि, मा भवत हुः-निश्चितं गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्ण:-अश्लाघा । यथा निराकृतयोऽमी मलदुरभि गन्धोपलिप्तदेहाः ततः किमेतेषामुपकण्ठं गतैरस्माभिरिति । तथा इतरस्मिन्-ग्लाने मा भवत्वजीर्णमिति । मलक्लिम्मवस्त्रप्रावरणे हि शीतलमारुतादि१ तुलना-पिण्डनि.वृत्तिः प. १२॥२ उक्तं च "पाठोदूखले निलोगो उवयारो" इति पिण्डनि. बत्तौ ।। ३ वयारे इति ततो-सि.॥४ भेदत-सि.॥५०गन्धोपदिग्धति पिण्डनि.वृत्तौ पाठः।।
८६५
२५२
॥१.३॥