SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोदारे सटीके ॥९९॥ 5 निषद्येत्यभिधीयते, अस्यास्त्विह और्णिकनिषद्याग्रहणेन ग्रहणमिति । तथा मुखविधानाय पोतं वस्त्रं मुखपोतम् मुखपोतमेव ह्रस्वं चतुरङ्गुलाधिकत्रितस्तिमात्रप्रमाणत्वान्मुखपोतिका मुखवत्रिकेत्यर्थः । 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानि' [ ] इति वचनाच्च प्रथमतो नपुंसकत्वेऽपि कप्रत्यये समानीते स्त्रीत्वमिति ॥ ८६०॥१२७॥ इदानों 'मिसिजागरणविहि' त्ति अष्टाविंशत्युत्तरशततमं द्वारमाह Hodsfa पढमयामे दोत्रिय वसहाण आइमा जामा } ओ होइ गुरूणं उत्थ सव्वे गुरू सुग्रह || = ६१ ॥ [ तुलना- ओघनि. ६६० ] 'सव्वेष' गाहा, सर्वेऽपि साधवः प्रथमयामे - रात्रेः प्रथमं प्रहरं यावत् स्वाध्यायाऽध्ययनादि कुर्वाणा जाग्रति द्वौ च आद्यौ यामौ वृषभाणाम्, वृषभा इव वृषभा - गीतार्थाः साधवस्तेषाम्, अयमर्थःद्वितीये यामे ये सूत्रवन्तः साधवस्ते स्वपन्ति, वृषभास्तु जाग्रति, ते च जाग्रतः प्रज्ञापनादिसूत्रार्थं परावर्तयन्ति । तृतीयः प्रहरो भवति गुरुणाम्, कोऽर्थः १ - प्रहरद्वयानन्तरं वृषभाः स्वपन्ति गुरवस्तूस्थिताः प्रज्ञापनादि गुणयन्ति चतुर्थ प्रहरं यावत् । चतुर्थे च प्रहरे सर्वेऽपि साधवः समुत्थाय वैरात्रिकं कालं गृहीत्वाकालिकतं परावर्तयन्ति । 'गुखः पुनः स्वपन्ति, अन्यथा प्रातर्निद्रा घूर्णमानलो चनास्तद्वशादेव च भज्य - मानपृष्ठका व्याख्यानभव्यजनोपदेशादिकं कतु ते सोद्यमाः सन्तो न शक्नुवन्तीति ॥ ८६१ ॥ १२८॥ १ गुरु पुनः स्वपित्ति-मु. ॥ १२८ द्वारे रात्रि जागरण विधि: गाथा ८६१ प्र. आ. २५० ॥९९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy