________________
प्रवचनसारोद्वारे
सटीके
॥१७॥
.. अथ धारणाच्यवहारमाह-गोयत्येत्यादि, इह गीतार्थेन संधिग्नेनाचार्येण कस्यापि शिष्यस्य क्वचिदपराधे द्रव्य क्षेत्र काल-भावपुरुषान् प्रतिसेवनाश्वावलोक्य या शुद्धिः प्रदत्ता तां शुद्धिं तथैवावधार्य १२६ द्वारे सोऽपि शिष्यो यदाऽन्यत्रापि तादृश एवापराधे तेष्वेव द्रव्यादिषु तथैव प्रायश्चित्तं ददाति तदाऽसौ
पञ्च धारणानाम चतुर्थो व्यवहारः, 'उद्भुतपदधरणरूपा वा धारणा, इदमुक्तं भवति- यावृत्यकरणादिना व्यवहाराः कश्चिद्गच्छोपकारी साधुरद्याप्यशेषच्छेदश्रुतयोग्यो न भवति ततस्तस्यानुग्रहं कृत्वा यदा गुरुरुद्धतान्येव | गाथा कानिचित्प्रायश्चित्तपदानि कथयति तदा तस्य तेषां पदानां धरणं धारणाऽभिधीयते इति ॥ ८५८ ॥ ८५४.
अथ जीतव्यवहारमाह-'दब्वाई'त्यादि, येवपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वप्यपराधेषु साम्प्रतं द्रव्य-क्षेत्र-काल-भावान् विचिन्त्य संहनन धृति-बलादीनां च हानिमासाद्य | प्र.आ. समुचितेन केनचित्तपःप्रकारेण यां गीतार्थाः शुद्धिं निर्दिशन्ति तत्समयपरिभाषया जीतमुच्यते, अथवा यत्प्रायश्चित्तं यस्याचार्यस्य गरछे मूत्रातिरिक्त कारणतः प्रवर्तितमन्यैश्च बहुभिरनुवर्तितं तत्तत्र रूढं जीतमुच्यते, तदेवमेतेर्पा पश्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव प्रायश्चित्तप्रदाने गीतार्थों गुरुरधिक्रियते न स्वगीतार्थः, । अनेकदोषसम्भवात् उक्तं च----
A'अग्गीओ न वियाणइ सोहिं चरणस्स देइ ऊणऽहियं । तो अप्पाणं आलोयगं च पाडेइ संसारे ॥१॥ [श्राद्धजितकल्प. गा. २०] इति ।।८५६।१२६।। १ उद्धृतपदधा-मु.|| Aअगीतार्थो न विजानीते चरणस्य शोधि ददात्यूनामधिका बा। तत आत्मानमालोचकं च पातयति संसारे॥