________________
प्रवचन
होकं द्वौ वा वारावालोचित
१२६ द्वारे
सारोद्वारे
॥ ९६ ॥
व्यवहारा: गाथा ८५४८५९
प्र.आ.
व्यपदेशः । एते च श्रुतव्यवहारिणः स्फुटतरोपलब्धिनिमित्तं 'त्रीन् वारानालोचनाईमालोचापयन्ति, ते ह्य के द्वौ वा वारावालोचिते अनेन सम्यगालोचितमसम्यग्वेति विशेष नावगच्छन्तीति, कथमालोचापयन्तीति चेदुच्यते, प्रथमवेलायां निद्रायमाण हव शृणोति तनो बने-निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोऽप्यालोचय, द्वितीयवारमालोचिते भणति-न सुष्टु मयाऽधुनाऽयधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि बारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषोऽमायावी, अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुटिल इति । एवं च सति तस्यापि प्रत्यय उपजायते यथाऽहं विमदृशभणनेन मायावी लक्षित इति । ततो मायानिष्पन्न प्रायश्चित्तं पूर्व दातव्यं तदनन्तरमपराधनिमित्तमिति ।
____ अथ आज्ञाव्यवहारमाह-'देसंतरे'त्यादिगाथोत्तरार्द्धम् , देशान्तरस्थितयोयोर्गीतार्थयोगूढपदेशलोचना-निजातिचारनिवेदनमाज्ञाव्यवहारः, एतदुक्तं भवति-यदा द्वावष्याचार्यावासेवितमूत्रार्थतया' गीतार्थों क्षीणजङ्घात्रलौ विहारक्रमानुरोधतो दुरतरदेशान्तरव्यवस्थितौ, अत एव परस्परस्य समीपं गन्तु. मसमर्थावाभूताम् , तदाऽन्यतः प्रायश्चित्ते समापनिने मति तथाविधयोग्यगीतार्थशिष्याभावे सति मतिधारणाकुशलमगीतार्थमपि शिष्यं समयभाषया गूढार्थान्यतीचारासेवनपदानि कथयित्वा प्रेषयति । तेन च गत्वा गूढपदेषु कथितेषु म आचार्यो द्रव्य-क्षेत्र-काल-भाव संहनन-धृति-बलादिकं परिभाव्य स्वयं वा तत्र गमनं करोति शिष्यं वा तथाविधं योग्यं गीतार्थ प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धि कथयतीति ।। ८५७॥ १ तुलना-व्यवहारवृत्तिः भा. २, गा. १३७ ।। २ मयानुधारित सि.॥ ३ व्याऽतिगी सि.
থা २४९
॥ ९६॥
कAANANA