SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सारोबारे १२६ द्वा पञ्च व्यवहार गाथा भणितोऽपि सन् मायावितया न मम्यक्प्रतिपस्यते इति तदा तमप्रतिपत्स्यमानं नैव स्मारयति निष्फलस्वात् । अमृढलक्षो हि भगवानागमव्यवहारी, अत एव दत्तायामप्यालोचनायो यद्यालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति । अथ न प्रत्यावृत्तस्ततो न प्रयच्छतीति । ननु चतुर्दशपूर्वधरादेः कथं प्रत्यक्षज्ञानित्वम् १ तस्य श्रुतज्ञानित्वेन परोक्षज्ञानित्वात् । उच्यते, चतुदेशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् , तथाहि-येन यथा योऽतिचारः कृतस्तं तथा सर्वमेते जानन्तीति । अथ यदि आगमव्यवहारिणः सर्वभावविषयं परिज्ञानं ततः कस्मात्तस्य पुरत आलोच्यते १, किन्तु तस्य समीपमुपगम्य वक्तव्यमपराधं मे भवन्तो जानते तस्य शोधिं प्रयच्छतेति । उच्यते, आलोचिते बहुगुणसम्भवतः सम्यगाराधना 'भवति । तथाहि-आलोचनाऽऽचार्येण स आलोचकः प्रोत्साह्यते, यथा वत्स ! त्वं धन्यस्त्वं च भाग्यवान यदेवं मानं निहत्यात्महितार्थतया स्वरहस्यानि प्रकटयसि, महादुष्करमेतत् , एवं स प्रोत्साहितः सन् प्रवर्धमानपरिणामः सम्यग् निःशल्यो भूत्वा यथावस्थितमालोचयत्ति शोधिं च सम्यक्प्रतिपद्यते, ततः पर्यन्ते आराधना, स्तोककालेन च मोक्षगमनमिति ।।८५६।। अथ श्रुतव्यवहारमाह-आयारे' त्यादिगाथापूर्वार्द्धम् , आचारप्रकल्पो-निशीथस्तदादिक कल्प. व्यवहारदशाश्रुतस्कन्धप्रभृत्तिकम् , एकादशाङ्गावशेषपूर्वप्रमुखं च शेषं श्रुतं-सर्वमपि श्रुतव्यवहारः । नवादिपूर्वाणां श्रुतत्वाविशेषेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वात् केवलादि वदागमत्वेनैव प्र. आ. २४९ १ मावना भवति-सि. ॥ २ त्वं माग्यवान-मुः। धन्यस्त्वं भाग्यमागु-जे.॥३ ०३या सि.॥ |॥ १५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy