SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके १२४ द्वारे नयभेदाः ॥८५॥ न शेषः स नय उपचारात शब्द इत्युच्यते, अस्य च द्वितीयं नाम साम्प्रत इति, साम्प्रतवस्त्वाश्रयणात साम्प्रतः, तथाहि-एषोऽपि ऋजुमूत्रनय इव साम्प्रतमेव वस्त्वभ्युपगच्छति 'नातीतमनागतं वा, नापि वर्तमानमपि परकीयम् , अपि च-निक्षेपचिन्तायां भावनिक्षेपमेव केवलमेष मन्यते न नामादीन निक्षेपान , तथा च नामादिनिक्षेपनिराकरणाय प्रमाण माह-नामस्थापनाद्रव्यरूपा घटा न घटाः घटकार्यकारित्वाभावात् , यद् घटकार्यकारि न भवति तन्न घटो यथा पटस्तथा चामी घटा घटकार्यकारिणो न भवन्ति तस्मान्न घटा इति नामादिघटानां घटत्वाभावः, इतश्च घटत्वाभावस्तलिङ्गादर्शनात , न खलु नामादिघटेषु घटलिङ्गं पृथुबुध्नोदराद्याकाररूपं जलधारणरूपं वा किमप्युपलभामहे, अनुपलभमानाश्च तेषु कथं घटव्यपदेशप्रवृत्तिमिच्छामः १, अपि च-नामादीन घटान् घटत्वेन व्यपदिशत ऋजुसूत्रस्य प्रत्यक्षविरोधः, अघटरूपतया पटादीनामिव तेषां प्रत्यक्षत उपलभ्यमानत्वात् । अन्यच्च एष लिङ्गवचन भेदाद्वस्तुनो भेदं प्रतिपद्यते, यथा अन्य एव तटीशब्दस्य वाच्योऽर्थः, अन्य एव तटशब्दस्य पुल्लिङ्गस्य, अपर एव च नपु. सकलिङ्गस्य, तथा अन्य एवं गुरुरित्येकवचनवाच्याऽर्थः, अन्य एव च गुग्च इति बहुवचनवाच्यः, ततो न बहुवचनवाच्योऽर्थ एकवचनेन वक्तु शक्यते, नाप्येकवचनवाच्यो बहुवचनेन, तथा न पुलिङ्गाों नपु'सकलिङ्गेन वक्तु शक्यः नापि स्त्रीलिङ्गेन, नापि 'नपुसकः पुलिङ्गेन स्त्रीलिङ्गेन वा, नापि स्त्रीलिङ्गः पुल्लिङ्गेन नपुंसकलिङ्गेन बा, अर्थाननुयायितया तेषामर्थतो भिन्नत्वात् , तथा चात्र प्रयोगः-ये पर१ नागर्न-सि. । नाप्यतीतमनागतं. प्रत्याय. मलय वृत्तौ पाठः ।। २ भघटस्वरूप० इत्यावश्यक. मलय. वृत्तौ पाठः॥ ३ नपुसकलिङ्ग:- इत्यावश्यक. मलय. वृत्ती पाठः॥ गाथा ८४७. ८४८ प्र. आ. २४५
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy