________________
१२४ द्वारे नयमेदाः
गाथा ८४७८४८
एष च व्यवहारनयो लोकसंव्यवहारपरः ततो यदेव लोकोऽभिमन्यते तदेवेषोऽपि न शेष सन्तमपि,
लोकश्च भ्रमरादौ परमार्थतः पञ्चवर्णाधुपेतेऽपि कृष्णवर्णादित्वमेव प्रतिपन्नः, तस्य स्पष्टतयोपलभ्यमानत्वात् , रोद्वारे
तत एषोऽपि तदनुयायितया नदेवेच्छति न शेषान् सतोऽपि शुक्लादीन वर्णानिति ३ । तथा 'ऋजु-प्रगुणमटीके
कुटिलमतीतानागतपरकीयवक्रपरित्यागाद्वर्तमानक्षणविवर्ति स्वकीयं च सूत्रयति-निष्टङ्कितं दर्शयतीति ऋजुसूत्रः, यदिया ऋजुश्रुत इति शब्दसंस्कारः, तत्र ऋजुः-पूवोक्त धक्रविपर्य यादभिमुखं श्रुतं-ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात् , तथाहि- एष मन्यते यदतीतमनागतं वा तद्यथाक्रमं विनष्टत्वान अलब्धात्मलाभाच्च नार्थक्रियासमर्थ नापि प्रमाणगोचरो ऽथवार्थक्रियासमर्थ प्रत्यक्षादिप्रमाणपथमवतीर्ण वस्तु न शेषम्, अन्यथा शशशृङ्गादेरपि वस्तुत्वप्रसक्तेः, ततोऽर्थक्रियासामयविकलत्वात प्रमाणपथातीतन्यानच नातीतमनागतं वा वस्तु, यदपि च परकीयं वस्तु तदपि परमार्थतोऽसत निष्प्रयोजनत्वात् परधनवत् , एष च ऋजुसूत्रो वार्तमानिकं वस्तु प्रतिपद्यमानो लिङ्ग-वचनभिन्नमप्येकं प्रतिपद्यते, तत्रेकमपि त्रिलिङ्ग यथा तटस्तटी तटम् , तथैकमपि एकवचन-द्विवचन बहुवचनवाच्यं यथा 'गुरुगुरवः, गोदी ग्रामः, आपो जलम्ः, दाराः कलत्रमित्यादि, निक्षेपचिन्तायां च नाम-स्थापना-द्रव्य-भावरूपाश्चतुरोऽप्यसो निक्षेपानभिमन्यते ४ ।
तथा 'शब्द्यते-प्रतिपाद्यते बस्त्वेनेनेति शब्दः, शब्दस्य यो वाच्योऽर्थः स एव येन नयेन तच्चतो गम्यते १तुलना-यावश्यक. मलय, वृत्तिः प.३७५ ।। २ ०वक्र० सि. नास्ति ।। । ३ अयं-मु.। आव. मलयवृत्तावपि एष इति पाठः॥४०ऽथ चार्थ मु.॥
५ गुरुगुरू गुरवः-मु. भाव. मलय. वृत्तावपि गुरुगुरषः इति पाठः॥ ६ तुलना आव. मलय. वृत्तिः प. ३७५ B ||
प्र. आ. २४५
॥८४॥
BE
AVITHAORATRIOUSNIGribe
lioned