SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके १२४द्वारे नयभेदाः ॥८३॥ कोऽप्यनिर्दिष्टस्वरूपः प्रतीयते, न सङ्ग्रहनयसम्मतं सामान्यं, तस्यार्थक्रियामामध्यंविकलतया सकललोकव्यवहारपथातीतत्त्वान् ततो विशेष एवास्ति न सामान्यम् , इतश्च न मामान्यमुपलब्धिलक्षणप्राप्तस्य तस्यानुपलब्धेः । इह यदुपलब्धिलक्षण प्राप्तं सन्नोपलभ्यते तदसदिति व्यवहर्तव्यम् । यथा क्वचित्केवलभृतलप्रदेशे घटः, नोपलभ्यते चोपलब्धिलझणप्राप्तं सत् सङ्ग्रहनयसम्मतं सामान्यमिति स्वभावानुपलब्धिः, अपि च-सामान्यं विशेषेभ्यो व्यतिरिक्तं स्यादव्यतिरिक्तं वा स्यान् ?, यद्याद्यः पक्षस्तर्हि सामान्यस्याभाव एव, विशेषव्यतिरिक्तस्य सामान्यस्यासम्भवात् , न हि मुकुलितार्धमुकुलितादिविशेषविकलं किमप्याकाशकुसुममस्तीति परिभावनीयमेतत् । अथाव्यतिरिक्तं ततो विशेषा एव, न सामान्यम् , तदव्यतिरिक्तत्वात्तत्स्वरूपवत् । यदपि चोक्तम् 'प्रत्यक्षं भावसम्पादितसकलसत्ताकमतस्तमेव साक्षात्कर्तु मलम् [ ] इत्यादि, तदपि बालप्रलपितम् , प्रत्यक्षं हि नाम तेन सम्पादितसत्ताकमुच्यते यदुत्पन्नं सत्प्रत्यक्ष साक्षात् करोति, कुरुते च प्रत्यक्षं साक्षात् घटपटादिरूपं विशेषं न सङ्ग्रहनयसम्मतं सामान्यम् , न च विशेषो घटपटादिरूपोऽभावो भावात्मकत्वात् , ततो नार्थक्रियाशक्तिबिकल इत्यदोषः, ततो विशेष एव प्रत्यक्षादिप्रमाणप्रसिद्धो न सामान्यमिति सामान्याग्रह एव त्याज्यो न विशेषाग्रहः, किच-यदेवार्थक्रियाकारि तदेव परमार्थसत् , न च सामान्य 'दोहदाहादिक्रियासूपयुज्यते किन्तु विशेषा एव गवादयः ततस्त एव तात्त्विकाः न सामान्यमिति गाथा ८४७८४८ प्र. आ. २४५ १. दोहादिकिया मु. । दोहवाहादि० सि. । वाहवाहावि. वि. । दोहदाहादि इत्यावश्यक मलयवृत्तौ पाठः॥ AURA malini sital
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy