SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके १२४ द्वारे नयभेदाः ॥७९॥ त्यादि, नैगमः संग्रहो व्यवहार ऋजुसूत्रश्चैव भवति बोद्धव्यः । शब्दश्च समभिरूढ एवंभृतश्चेति मूलनया इति माथासक्षेपार्थः । तत्र न एक नै नायं ना किन्तु न इति अन स्वरे' इति न भवति, प्रभतानीत्यर्थः ।। ततो नैका-प्रभूतसङ्ख्याकैर्मानैः-महासामान्या-चान्तरसामान्यविशेषादिविषयः प्रमाणमिमीते-परिमिछनत्ति वस्तुजातमिति नैगमः, पृपोदरादित्वादिष्टरूपसिद्धिः । यद्वा निश्चितो गमो निगमः, परस्परविविक्तसामान्यादिवस्तुग्रहणं स एव प्रज्ञादेराकृतिगणतया स्वार्थिकाणप्रत्ययविधानान्नेगमः, अथवा गमा:पन्थानो नैके गमा यस्य स 'नैगमः, पृषोदरादित्वात्ककारस्य लोपः, बहुविधवस्वभ्युपगमपर इत्यर्थः । तथाहि-एष सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्व-गुणत्व-कर्मत्वादीनि तथा अन्त्यान विशेषान्-सकलासाधारणरूपान् अवान्तरविशेषांश्च-पररूपव्यावर्तनक्षमान् सामान्यादत्यन्तविनिलु ठितस्वरूपान् प्रतिपद्यते । यतोऽसावेवमाह- "संबिन्त्रिष्टाः किल पदार्थव्यवस्थितयः । तत्र सर्वेष्वपि पदार्थेषु द्रव्यादिरूपेषु सत् सदित्यविशेषेण प्रत्यय उपजायते वचनं च, न चैते तथारूपे प्रत्ययवचने द्रव्यादिमात्रनिबन्धने, द्रव्यादीनामसर्वव्यापकत्वात् , तथाहि-यदि द्रव्यमात्रनिवन्धनः सदिति प्रत्ययस्तर्हि स गुणादिषु न भवेत् , सत्र द्रव्यत्वाभावात् , गुणमात्रनिबन्धनत्वे द्रव्यादिषु न स्यात् , तत्र गुणत्वाभावात् , एवं सर्वत्रापि भावनीयम् , ततोऽस्ति द्रव्यादिभ्यो व्यतिरिक्त महासत्ताख्यं नाम सामान्यं यदशादविशेषण गाथा ८४७८४८ प्र. आ. २४३ १ तुल्यप्रायमावश्यक. मलयवृत्तिः प. ३०१ B॥२ तुलना-विशेषावश्यक भा. २१८६ तः ।। ३ नेगमः- मु.॥ ४ तुलना-"नैगम इति प्राकृते ककारस्याश्रवणात गमनं गमः पन्थाः-[क] गमो नेकपथः" इति विशेषाव.मा.कोया पार्यवृत्ती (.५४) ५ संविनिविष्टा:-मु.1 आव. मळय. वृत्तावपि संषिभिष्टा:-नति पाठः॥ ॥७९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy