________________
प्रवचनसारोद्धारे
|॥ ५४॥
स्थान व्याख
NAAMKARisinsaanakamananews
...... te
n TwisduseE
दण्डकाना-शक्रस्तबादीनां पञ्चकं तथा स्तुतियुगलमिति-समयभापया स्तुतिचतुष्टयं ताभ्यां या वन्दना सा मध्यमा, साम्प्रतरुट्या एकवारवन्दनेत्यर्थः, उत्कृष्टा तु विधिपूर्वकशकस्तयोपलक्षितपञ्चदण्डकनिर्मिता 'जय वीयराय' इत्यादिप्रणिधानपर्यन्ता चैत्यवन्दना भवतीति. अन्ये पुनः शक्रम्नवपञ्चकभणनेनोत्कृष्टचैत्यवन्दना भवतीति व्याचक्षते, एवं च शक्रस्तवपञ्चकं भवति-उत्कृष्टचैत्यवन्दनया वन्दितुकामः साधु श्रावको वा चैत्यगृहादी गन्वा यथोचितं प्रतिलेखितप्रमार्जितस्थण्डिलस्त्रैलोक्यगुरौ विनिवेशितनयनमानसः संवेगवेगग्यभरोज्जम्भमाणरोमाञ्चकञ्चुकिनगात्रः प्राप्तप्रकपहर्षवशविसर्पद्वाष्पपूरपूर्णनयननलिनः सुदुर्लभ भगवञ्चरणारविन्दवन्दनमिति बहुमन्यमानः सुसंवृत्ताङ्गोपाङ्गो योगमुद्रया जिनसम्मुखं शक्रम्तवमस्खलिता. दिगुणोपेतं पटति. तदनु ऐपिथिकीप्रतिक्रमणं करोति, ततः पश्चविंशन्युच्छ्वासमानं कायोत्सर्ग कृत्वा पायित्वा 'लोगस्सुजोयगरे' इत्यादि परिपूर्ण भणित्वा जानुनी च भूमौ निवेश्य योजितकाकुशेशयस्तथाविधसुकविकृतजिननमस्कारभणनपूर्व शक्रम्तवादिभिः पञ्चभिर्दण्डकैजिनममिवन्दते, चतुर्थम्तुतिपर्यन्ते पुनः शक्रस्तवमभिधाय द्वितीय वेलं तेनैव क्रमेण वन्दते, तदनु चतुर्थशकस्तवभगनानन्तरं स्तोत्रं पवित्रं भणित्या 'जय वीयराय' इत्यादिकं च प्रणिधानं कृत्वा पुनः शक्रस्तवमभिधत्ते इति, एपा घोत्कृष्टा चैन्यवन्दना ऐपिथिकीप्रतिक्रमणपूर्विकैव भवति, जघन्यमध्यमे तु चैत्यवन्दने ऐपिथिकी रतिक्रमणमन्तरेणापि भवत इति ।।९२|| 'वंदणयं' ति द्वितीयं द्वारमधुना व्याख्यायते, तबाह--
मुहणतयदेहाऽऽवस्सएसु पणवोस हुति पत्तेयं । छहाणा छच्च गुणा छच्चेव हवंति गुरुवयणा ॥९॥
२४