________________
प्रवचन सारोद्धारे
इदानीं यस्मिन्नधिकारे ये जिनादयो वन्द्यन्ते तान स्वयमेव सूत्रकारो दर्शयति-पढमे छडे'त्यादि गाथाद्वयं, तत्र प्रथमेऽधिकार शक्रस्तवरूपे 'जियभयाण' इतिपर्यन्ते तथा षटु 'पुक्खरवरदीवडे १ चैत्यइत्यादिरूपे तथा नवमेऽधिकारे 'जो देवाणवि देवो' इत्यादिरूपे तथा दशमेऽधिकारे 'उजिंतसेलसिह- वंदनद्वारे रे' इत्यादिरूये तथैकादशेऽधिकार 'चत्तारि अट्ठदस' इतिस्वरूपे भावजिनान द्वितीयगाथान्ते 'सरेमि' इतिक्रियापदकरणात् स्मरामि बन्दनीयतयेति, भावजिनाच सकलत्रैलोक्यातिशायिनीमशोकादिविशिष्टाष्टांपा
|धिकाराः तिहार्यरूपामार्यजननिकरनयननलिनानां परमोत्सवयामानामपारसंसारपारावारनिमज्जज्जनतोत्तारणतरीकल्पामविकल्पकल्पद्रुमचिन्ताग्न्नादिश्योऽप्यममानमहिमानमुन्मीलन्निमलकेवलालोकबलपरिकलितलोकालो--- कामदभुतां विभूतिमनुभवन्तस्तीर्थकराः । तथा 'अरिहंतचेइयाणं' इत्यादिके तृतीयेऽधिकारे 'सव्वलोए अरहनचेइयाणं' इत्यादिरूपे पञ्चमे च यथाक्रमं साक्षाद्विवन्दिषितदेवगृहस्थाषितप्रतिमारूपान् भवनपतिध्यन्तरज्योनिर्षिकवैमानिकनन्दीश्वरमन्दरकुलाचलाष्टापदसम्मेतशैलशिखरशत्रुञ्जयोज्जयन्तादिसर्वलोकस्थितशाश्वताशाश्वतदेवगृहस्थापितजिनेन्द्रबिम्वरूपांच जिनान् स्मरामीति ॥८॥
तथा 'तमतिमिरपडल' इत्यादिके सप्रमेऽधिकारे निखिलकुमततिमिरनिकरापहारकारि ज्ञानं स्मरामोति, तथा अष्टमे 'सिद्धाणं बुद्धाणं' इत्यादिरूपे द्वितीये 'जे य अईया सिम्हा' इतिरूपे चतुर्थे 'लोगास उजोयगरे' इत्यादिरूपे च यथासङ्खयं सिद्धान् द्रव्यजिनान् नामजिनांश्च स्मरामीति, तथा
यावञ्चगराणं करेमि काउस्सग्ग' इत्यादिरूपे द्वादशेऽधिकारे वैयावृत्यकरसुरान् स्मरामीति ॥८६॥
॥५१॥