SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे ॥ ५० ॥ १ 7 रवरदीवड्ढे' हत्यादिपरिपर्णगाथाकेन पुष्करवरद्री पार्श्वधातकीखण्डजम्बुद्वीपवर्तिनामर्हता स्तवः क्रियते इति अर्धवृतीयद्वीपवर्तिभावात्स्तवोऽयं षष्ठोऽधिकारः, ननु श्रुतस्तवाधिकार एवेदानीं प्रस्तुतः तत्कथमप्रस्तुतस्तीर्थकृतां स्तवः क्रियते इति, सत्यमेतत्, तथापि श्रुतस्य कारणं भगवन्तस्तीर्थकरा एव, तैरव प्रवर्तितत्वात्, 'अri भाइ अरिहा' इत्यागमवचनात् गणधराणामपि सूत्रकर्तृ णामर्थस्य तीर्थकरैरेव कथितत्वादिति. अन्यच्च एतदेव श्रुतस्तवे प्रस्तुतेऽपि तीर्थकरस्तवकरणं ज्ञापयति यत्किञ्चित्कार्यजातं क्रियते श्रेयोऽर्थिभिस्तत्सर्वं तीर्थनमस्कारपुरस्सरमेय करणीयं इत्थमेव सर्वकल्याणप्राप्तेरिति, 'तमतिमिर' इतिगाथाक्षरे: सूचितातनसूत्रः श्रुतं स्तूयत इति श्रुतस्तवोऽयं सप्तमोऽधिकारः, 'सिद्धाणं' इत्यनेन निवेदितसकलगाथाकेन सिद्धस्तुत्यभिधानोऽष्टमोऽधिकारः ||८५ || 'जो देवाणवि' त्ति गाथारैः सूचितेन गाथाद्वयेन एतत्तीर्थस्य प्रवर्तकत्वादासन्नतरतया महोपकारकारित्वाद्भगवतो महावीरस्य स्ववस्तनमस्कारफलप्रकटनपरो विधीयत इति वीरस्तवो नामायं नवमोsधिकारः, 'उर्जित सेल'ति अनेनापि पदावयवेन सूचितसकलगाथाकेन सकलत्रिलोकीतिलकायमानस्य भगवतः श्रीनेमिनाथस्य स्वो विधीयते इति श्रीनेमिनाथस्तवोऽयं दशमोऽधिकारः, चत्तारि अदस दो यति अनयाऽपि गाथया चतुर्विंशतेरपि जिनानामाशंसाकरणपूर्व प्रणिधानं कृतमिति एकादशोऽधिकारः, 'वेयावच्चगराण'ति-अनेनापि सूचित 'वे यावचगराणं संतिगराणं' इत्यादिकायोत्सर्गकरणतदीयस्तुतिदानपर्यन्तेन द्वादशोऽधिकारः कथितः, एतानि 'नमोऽत्यु' इत्यादीन्यधिकारोलिङ्गनपदानि ज्ञेयानीति गाथाद्वयतात्पर्यार्थः ||६|| १ चैत्य चंदनद्वारे द्वादशा धिकारा ॥ ५०
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy