________________
प्रवचन
प्रमाणप्रकाशवाद महार्णवादिनाग्रन्थेषु विस्तरेण साधितत्वादिति शक्रस्तवसम्पदां प्रथमोल्लिङ्गनपदानि ज्ञेयानि, पुल्लिङ्गनिर्देश प्राकृतत्वाददृष्टः, आलापकाश्रात्र त्रयस्त्रिंशद्विज्ञातत्र्याः । या च 'जे अईया सिद्ध' इति गाथा साऽप्यवश्यं भणनीया, शक्रस्तवान्ते पूर्वेहात धरैरभिहितत्वात् न पुनरौपपातिकासारोद्धारे दिषु 'नमो जिणाणं जियमपाणं' इति पर्यन्तस्य शक्रस्तवस्य पठितत्वान्नेयं गाथाऽस्माभिः स्वयं भव्यतइति कुषाऽऽग्रहग्रस्तमानसैर्नयनवानव्यविकल्पकल्पना कुशलैराधुनिकैरिव कैश्चिन्न पठनीया, प्राक्तनैरशरनभिमानैर्गीतार्थैः सूरिभिगतस्य पक्षस्यादरणीयत्वादिति ॥८१॥
॥ ४७ ॥
'अरिहंतचेइयाणं' इति दण्डकेट सम्पदस्तासामाद्यपदनिरूपणार्थमाह- 'अरिहं वंदणे' त्यादि तत्रामित्यनेन सूचिताद्यपदा पदद्वयनिष्पन्ना प्रथमा सम्पत् 'वंदण' मित्यनेन सूचिताद्यपदा पदषट्कनिष्पन्ना द्वितीया सम्पत्. 'सडे' ति गाथावयवेन निवेदिताद्यपदा पदमप्तकनिर्मिता तृतीया सम्पत्, 'अन्नत्थू' इति गाथाक्षरत्रयेण निर्मिताद्यपदा पदनवनिर्मिता चतुर्थी सम्पत्, 'सुहुमेति' गाथावयवेन सूचिताद्यपदा पद
निष्पन्ना पञ्चमी सम्पत्, 'एवे 'ति गाथाक्षद्वयेन प्रकटीकृताद्यपदा पदषट्कनिष्पन्ना पष्ठी सम्पत् 'जे'ति गाथाश्वरेण सूचिताद्यवदा पदचतुष्टयनिष्पन्ना सप्तमी सम्पत्, 'नावे' तिगाथाक्षराभ्यां सूचिताद्यपदा पदषनिष्पन्न अष्टमी सम्पदिति अच्चै त्यस्तवे विश्रामाणां प्रथमानि पदानि, आद्यानां च पदानां परिज्ञाने मध्यमानि पदानि सुगमान्येवेति ||२||
इदानीं चतुर्विंशतिस्तवदण्डके ज्ञानस्तवण्ड के सिद्धस्तवदण्ड के चैकयैव गाथया सम्पत्परिमाणमाह-'असे त्यादि, अष्टाविंशतिः षोडश विंशतिश्व यथाक्रमेण - यथासमये न निर्दिष्टा - निवेदिता नामजिन
१ चै
वंदन
सम्पद
॥ ४७