SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे चंदनवः सम्पद ।।४४।। सम्पद एवं मन्यन्ते, यथा-'एसो पंच नमुक्कारो सवपावप्पणासणो' इति षोडशाक्षरप्रमाणा षष्ठी सम्पन्, 'मंगलाणं च सव्वेसिं' इत्यष्टाक्षरघटिता सप्रमी सम्पन्, 'पढमं हवद मंगलं' इति नवाक्षरनिष्पना अष्टमी सम्पत्, यदुक्तं-'अंतिमचूलाइ नियं सोलसअटुनववरजुयं चेव । जो पढइ भत्तिजुत्तो सो पावइ सासयं ठाणं ॥७॥" [अन्त्यचूलिकायांत्रिक पोडशाष्टनवाक्षरयुतं चैव ! यः पठति भक्तियुक्तः स प्राप्नोति शाश्वतं स्थानं ।।१।।] इति, एवमैर्यापथिक्यादिष्वपि सम्पद्विषये यथायथं मतान्तराणि मतिमद्भिर्मन्तव्यानीति । अत्र च यद्यपि 'हवइ होइ' इत्यनयोरथं प्रति न कश्चिदिशेषः होइ मंगलं' इति च पाठे श्लोको नाधिकाक्षरो भवति तथापि 'हवइ' इत्येव पठितव्यं, यतो नमस्कारवलयकादिग्रन्थेषु सर्वमन्त्ररत्नानामुत्पत्त्याकरस्य प्रथमस्य कल्पितपदार्थकरणककल्पद्रमस्य विषविषधरशाकिनीडाकिनीयाकिन्यादिनिग्रहनिरवग्रहस्वभावस्य सकलजगद्वशीकरणाकृष्टयाद्यव्यभिचारित्रौढप्रभावस्य चतुर्दशपूर्वाणां सारभूतस्य पञ्चपरमेष्ठिनमस्कारस्य व्याख्यायां प्रस्तुतायां तथाविधप्रयोजनोदंशेन यन्त्रपदादिविरचनायर्या प्रकृतायां यदा द्वात्रिंशद्दलं पद्ममालिख्यते प्रतिदलं च श्लोकसम्बन्ध्येकैकमक्षरं निवेश्यते तदा नाभौ त्रयस्त्रिंशत्नममक्षरमवश्यं निवेश्यं अन्यथा नाभिभागः शून्य एव स्यात्, मात्रयापि च हीने यन्त्रपनादौ निवेश्यमाने महामन्त्रे तत्साध्यविशिष्टाभीष्टपरिपूर्णफलानपाप्तेरिति ‘हवइ' इत्ययमेव पाठो युक्तः, तथा चैतत्संवादिपूर्वाचार्यकृतप्रकरणवचनं-"अट्ठसद्विअक्खरपरिमाणु, जिणसासणि नवकार पहाण । अंतिमचूला तिन्नि पसिद्धा, सोलस अट्ठनवक्खररिद्धा ।। १॥" SAACHARPACESS ।। ४४ ..... ... RAMATIPATHITa m ilandanciatiohdhini.. Recene
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy