SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रवचनदामोद्वारे 'मुद्दातिग' चेति व्याचष्टे-जिनमुद्रा योगमुद्रा मुक्ताशुक्तिमुद्रा चेति मुद्रात्रयं ज्ञातव्यं ।। 'तिविहं च पणिहाणं' इति विवृणोति-'कायमणोवयणनिरोहणं च तिविहं च पणि- १ चैत्य हा नि मायानोन नहानामकुशलरूपाणां निगेधनं-नियन्त्रणं शुभानां च तेषां करणमित्ति, तत्र कार्य | वंदना सुसंवृतं कृत्वा विहितकरकुशेशयकोशो मनसि तमेवाचिन्त्यचिन्तामणिचारुचरितं वंद्यमानमर्हन्तं निवेश्य दशनिजमधुरिमाधरीकृतमधुमाधुर्यया वाचवं प्रणिधानमाधत्ते ।। त्रिकाणि यथा- 'जय त्रिजगतीपते शरण ! देहिनां श्रीजिनप्रसादवशतस्तव स्फुरतु मे विवेकः परः । भवेद्भवविरागिता भवतु संयमे निवृतिः, पगर्थकरणोद्यमः सह गुणार्जनैर्जायताम् ।।१।।" इत्यादि १० । तत्र मुद्रात्रयमध्ये यस्या यत्र व्यापारस्ता तत्र दर्शयति-पंचंगे'त्यादि पञ्चाङ्गानि-अवयवा विवक्षितव्यापारवन्ति यत्र स पश्चाङ्गः प्रणिपात:-प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः, यद्यपीह पञ्चाङ्गः प्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति द्रष्टव्यं, मुद्राणामेवाधिकृतत्वात, युक्तं च पश्चाङ्गया अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति । तथा स्तवपाठः शक्रस्तवादिरूपो भवति योगमुद्रया, वन्दनं-चैत्यवन्दनं 'अरहंतचेइयाणं' इत्यादिकं जिनमुद्रया, अनुस्वारश्वात्र लुप्तो द्रष्टव्यः, इयं च पादाश्रिता योगमुद्रा हस्ताश्रितेत्युभयोरपि चैत्यवन्दने व्यापारः, प्रणिधानं 'जय वीयराये'त्यादिकं मुक्ताशुक्तिमुद्रयेति । अथ पश्चाङ्गप्रणिपातलक्षणनिरूपणापूर्वकं एतासामेव मुद्राणां लक्षणं दर्शयति- 'दो जाण' इत्यादि, तत्र पञ्चभिरङ्गः सम्यक्-समीचीनतया प्रकर्षेण निपतन-संप्रणिपातो ज्ञेयः पश्चाङ्गप्रणिपातः, तत्र कानि पञ्चाङ्गानीति दर्शयति-द्वे जानुनी द्वौ करौ पश्चमकं भवत्युत्तमाङ्ग च,
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy