________________
प्रवचनसारोद्धारे
॥ ३८ ॥
गन्धवर सर्वोपधिभिरुदकादिकैश्वित्रैः
। सुरभिविलेपनवर कुसुमदामवलिदीपेश्व सिद्धार्थकदध्यक्ष गोरोचनादिभिर्यथालाभं । काञ्चनमोतिकरत्नादिदामभित्र विविधैः rat rat: प्राय भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां सकाशाच लष्टतरः ||३| ]
11 ? 01 ||२||
एवं भगवन्तं पूजयित्वा ऐर्यापथिकी प्रतिक्रमणपूर्वकं शक्रस्तवादिदण्ड कैश्चैत्यवन्दनं विधाय स्तोत्रे - रुत्तमैरुत्तमकविविरचितैर्भगवतो गुणोत्कीर्तनं कुर्यात् स्तोत्राणां चोत्तमत्वमेवमभिहितं यथा"पिण्डक्रियागुण भी विविधवर्णसंयुक्तेः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः || १ || पापनिवेदन गभैः प्रणिधान पुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणवृतैः स्तोत्रैव महामतिग्रथितैः॥२॥” इति, यथा-"नानन्दोदकले लम्पट पुढं स्निग्धेऽपि बन्धों जने, न क्रोधारुणिमास्पदं कृतशेऽपि शत्रौ क्वचित् । ध्यानावेशविलोकिताखिलज गल्लक्ष्मीं क्रियाद्वश्चिरं चक्षुयुग्ममयुग्मबाण जयिनः श्रीवर्धमानप्रभोः ॥ १ ॥ कृत्वा हाटककोटिभिर्जगद्सद्दारिद्रयमुद्राकथं, हत्वा गर्भशयानपि स्फुटमरीन्मोहादिवंशोद्भवान् । atter दुष्करमस्पृहेण मनसा कैवल्य हेतु तपस्त्रेधा वीरयशो दधद्विजयतां वीत्रिलोकीगुरुः ||२|| यथा वा संसारमारवपथे पतितेन नाथ !, मीमन्तिनीमरुमरीचिविमोहितेन । दृष्ट: कृपारसनिधिस्त्वमतः कुरुष्व तृष्णापनोदवशतो जिन ! निर्वृतिं मे ॥३॥ " इत्यादिस्वरूपैः स्तोत्रगुणोत्कीर्तनरूपा पूजा श्रीभगवतो विधेया, न पुनर्जीडामङ्गलातङ्कदायिभिरेवंविधैर्यथा"उचिन्त्या रतान्ते भरमुरगपत पाणिनैकेन कृत्वा, छ्रुत्वा चान्येन वासो विगलितकबरीभारमंशं वहन्त्याः ।
·
१ चैत्यचंदनद्वारे
दशत्रिकाणि
॥ ३८ ॥