________________
प्रत्र. सारोद्धारे
द्वार
कस्मिन् समये १८५, इत्येकचत्वारिंशत्तमगाथायामेकाशीत्युत्तरशततमादीनि चतुरशीत्युत्तरशततमान्तानि
२७६ चत्वारि द्वाराणि ॥४२॥
कायस्थितिः तथा भवस्थितिरे केन्द्रियाणां-पृथिव्यप्तेजोवायुवनस्पतीना 'विगल' ति 'एकदेशे समुदायोपचारात' विकलान्द्रयाणां -द्वित्रिचतुरिन्द्रयाणां संज्ञिनामसज्ञिनां च जीवानां १८५-१८६, तयेतेषामेव तनुप्रमाणं-शरीरप्रमाणं १८७, तथा 'इंदियसरूवविसय' त्ति इन्द्रियाणां स्वरूपं-आकारविशेषादिलक्षणं विषयाश्च तेपामेव वाच्याः; अत्र च समाहारेकत्वेऽपि प्राकृसत्वात्पुसा निर्देशः१८८, तथा लेश्याश्चेतेपाम् १८९ इति द्विचत्वारिंशत्तमगाथायां पञ्चाशीत्युत्तरशततमादीनि एकोननवत्युत्तरशततमान्नानि पञ्च द्वाराणि ॥४३॥
एतेषामेकेन्द्रियविकलेन्द्रियसंज्ञिजीवानां यत्र स्थाने गतिः १९०, तथा येभ्यः स्थानेभ्य आग. तिरेतेषां १९१, तथा एतेषामेयोत्पत्तिमरणयोविरहः-अन्तरमेकस्मिन्नुत्पन्ने मृते वा सति भूयः कियता कालेनान्य उत्पद्यते म्रियते वेत्येवं लक्षणं १९२, तथैतेषामेकसमयेन जायमानानां म्रियमाणानां च सङ्ख्या १६३ चः समुच्चये, इति त्रिचत्वारिंशत्तमगाथायां नवत्युत्तरशततमादीनि त्रिनवत्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥४४||
भवनपतिव्यन्तरज्योतिषिकविमानवासिदेवानां स्थितिः १६४, तथा भवनानि १६५, तथा देहप्रमाणं १९६, तथा लेश्या १९७, तथाऽवधिज्ञानं १९८, चः समुच्चये, इति चतुश्चत्वारिंशत्तमगाथायां ॥ चतुर्नवत्युत्तरशततमादीनि अष्टनवत्युनरशततमान्तानि पश्च द्वाराणि ॥४५॥
SS
SARAN