________________
प्रव०
सारोद्वारे
॥ २४ ॥
------
अष्टादश पुरुषेषु १०७ तथा विंशतिः स्त्रीषु १०८ तथा दश नपुंसकेषु प्रत्राजनानर्हाः १०६ तथा विकलारूपा ११० इति चतुर्दिशतिनगाथायां सप्तोत्तरशततमादीनि दशोत्तरशततमान्तानि द्वाराणि चत्वारि । २५
यत् मूल्यं यस्य तत् यन्मूल्यं यतीनां मुनीनां कल्पयं-कल्पनीयं वस्त्रं १११, तथा शय्यातरस्य पिण्ड कल्प्योsकल्प्यो वेति ११२ तथा यावति सूत्रे सति सम्यक्त्वमवश्यम्भावि ११३, तथा निर्ग्रन्था अपि चतुर्गतिका भवन्ति चतस्रो नरकादयो गतयो येषां ते चतुर्गतिकाः ११४ इति पञ्चवि शतितमगाथायामेकादशोत्तरशततमादीनि चतुर्दशोत्तरशततमान्तानि चत्वारि द्वाराणि ॥ २६ ॥
क्षेत्रे तथा मार्गे तथा काले तथा प्रमाणे चातीतं मणितप्रमाणात् क्षेत्रादेरतिक्रान्तं अकल्यं यत् तद्भणनीयं ११५-११६-११७ - ११८, तथा दुःखशय्याचतुष्कं ११९, तथा सुखशय्याचतुष्कं १२०, तथा त्रयोदश क्रियास्थानानि १२१ इति पविशतितमगाथायां पञ्चदशोत्तरशततमादीनि एकविंशत्युत्तरशततमान्तानि सप्त द्वाराणि ||२७||
एकस्मिन् भत्रे बहुषु च भवेषु आकर्षा -- विरूपाभ्यवसाय विशेषाश्चतुर्विधेऽपि सामायिके श्रुतसामायिक – सम्यक्त्व सामायिक - देशविरति०- सर्वविरति० लक्षणे कियन्तो भवन्ति १ १२२, तथा शीलस्वाङ्गभूताः - कारणभूता ये पदार्थास्तेषामष्टादशसहस्रा वाच्याः १२३, तथा नयानां नैगमादीनां सप्तकं व १२४ इति सप्तविंशतितमगाथार्या द्वाविंशत्युत्तरत्रयोविंशत्युत्तर चतुर्विंशत्युत्तरशततमानि त्रीणि द्वाराणि ॥ २८||
२७६
द्वार
निर्देश
॥ २४ ॥