SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे ८६ द्वारे परीषहाः २२ गाथा सटीके ।।५७१॥ ६६१ द्वाविंशतिरपि परीषहा बादरसम्परायनाम्नि गुणस्थानके । कोऽर्थः -अनिवृत्तिबादरसम्परायं नवमगुणस्थानं यावत् सर्वेऽपि परीषहाः सम्भवन्तीति । तथा चतुर्दश चशब्दस्यैवकारार्थत्वाच्चतुर्दशसङ्ख्या एव-क्षुत्पिपासा-शीतोष्ण दंश-मशक-चर्याशय्या-वधा ऽलाभ-रोग-तृणस्पर्श-मल-प्रज्ञा-ऽज्ञानरूपाः परीपहाः 'सूक्ष्मरागेसूक्ष्मसम्परायनाम्नि दशमगुणस्थानके उदयमासादयन्ति । मोहनीयस्य क्षपितत्वेन उपशमितत्वेन वा सप्तानी चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः । तथा छद्म-आवरणं तत्र स्थितश्छमस्थः, बीतः-अपगतो रागः समस्तमोहोपशमात्सकलमोहक्षयाच्च यस्य स तथा ततः कर्मधारयः, छअस्थवीतरागशब्देन उपशान्तमोह-झीण मोहलक्षणं गुणस्थानकद्वयं परिगृह्यते । तत्रापि उक्तरूपा एव चतुर्दश परीपहा सम्भवन्तीति । तथा जिने-मयोगिकेवल्ययोगिकेवलिलक्षणे त्रयोदश चतुर्दशगुणस्थानकद्वये परीपहकारणभूतस्य वेदनीयस्यैव सद्भावात्तत्प्रतिबद्धा एव एकादश परीषहाः सम्भवन्ति । उक्तंच ''क्षुत्पिपासा च शीतोष्णे, दंशाश्चर्या वधो मलः । शय्या रोगतृणस्पशौं, जिने वेद्यस्य सम्भवात् ।।१॥' इति ॥६९०॥ नन्ते परीषहा एकस्मिन् काले उत्कृष्टतो जघन्यतश्च एकस्मिन् प्राणिनि कियन्तः प्राप्यन्ते । तत्राह'चीसं' गाहा,विंशतिरुत्कृष्टपदे चिन्त्यमाने परीषहा वर्तन्ते ? युगपदेकत्र प्राणिनि, जघन्यतश्च-जघन्यपद माश्रित्य एक एव परीषहः । ननूत्कृष्टपदे किं न द्वाविंशतिरपि परीपहा एकत्र वर्तन्ते १ इत्याह-शीतोष्णे १ सूक्ष्मराग-मु.। सूक्ष्मसंपराये सूक्ष्मरागे-वि. सूक्ष्मसंपराये-सि.॥ प्र.आ. ma
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy