________________
चन
सारोद्धारे सटीके
५५४॥
इदानीमेतेषां पञ्चानामपि दण्डानां प्रयोजनं प्रतिषिपादयिषुरनानुपूर्व्या अपि व्याख्याङ्गत्वात्प्रथमं नालिकायाः प्रयोजनमाह-- 'नइपमुहजलुत्तारे तीए धग्धिजए सलिलं । नदीप्रमुखजलोचारे-नदीहृदादिकमुत्तरीतुमनोभिमुनिभिस्तया नालिकया स्वाध्यते - सलिलम् इदं गाधमगाधं वा इति परिमीयते
।।६७० ६७१ ।।
अथ यष्टादीनां प्रयोजनमाह - 'बज्झइ' इत्यादिगाथाद्वयम् यष्ट्रया यष्टिदण्डकेन उपाश्रये भोजनादिवेलायां सागारिकादिरक्षणार्थं यवनिका-तिरस्करिणी बध्यते । तथा वियष्टया - वियष्टिदण्डकेन कुत्रापि प्रत्यन्तग्रामादौ तस्करादिरक्षणार्थमुपाश्रयमकं द्वारं घट्टयते - आहन्यते येन खाट्कारश्रवणात् तस्करशुनकादयो नश्यन्तीति । तथा ऋतुबद्धे काले मिश्राभ्रमणादिवेलायां दण्डको गृह्यते तेन हि प्रद्विष्टानां द्विपदानां मनुष्यादीनां चतुष्पदानां गवाश्वादीनां बहुपदानां शरभादीनां निवारणं क्रियते । दुर्गस्थानेषु
व्याघ्रचौरादिभये ग्रहरणं भवति । वृद्धस्य च अवष्टम्भन हेतुर्भवतीत्यादिप्रयोजनम् । तथा वर्षाकाले विदण्डको गृह्यते । यद्यस्मात्स लघुको भवति ततः कल्पान्तरितः - कल्पस्याभ्यन्तरे कृतः सुखेनैव नीयते । aorat erster येन न स्पृश्यन्त इति ।। ६७२-६७३ ।।
इदानीमेतेषां दण्डानां शुभाशुभस्वरूपप्रतिपादनायाह- 'विसे' त्यादि, पूर्वोक्तेषु पञ्चसु दण्डकेषु पर्याणि ग्रन्थिमध्यानि एवंविधानि शुभानि भवन्तीति सम्बन्धः । तत्र विषमाणि - एक-त्रि-पंच- सप्त- नव
१ बहुपदानां - जे. नास्ति ।।
२ तथा मु. नास्ति ॥
८१ द्वारे दंडपचकं
गाथा
६६६
६७४
प्र. आ. १८९
॥ ५५४॥