SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ॥५४५॥ , स्वगृहं परित्यज्य गृहान्तरादिषु व्यासक्ता एवं लोकसम्भावनोत्पादनात् तथा न जनोपकारो-न विविधदेशस्थित भव्य जनानामुपदेशदानादिभिर्गुणः कृतो भवति, अथवा न देशान्तरस्थितसुविहितजनस्योपचारो - वन्दनादिपूजा, जनेभ्यो वा सकाशादुपचारो न लब्धो भवति सुविहितजनव्यवहारो वा न परिपालितः स्यात् । तथा न-नैव देशेषु - विविधमण्डलेषु सञ्चरतां विज्ञानं विचित्रलोकलोको सरव्यवहारपरिज्ञानम्, तथा -न नैव आज्ञाराधनम् आगमोक्तार्थानुपालनम् आगमोह्यं वम् *"मुत्तूण मामक अन्नो सुसंमि नन्धि विहारो ।' [पञ्चवस्तुकः ८९६ ] एते - अनन्तरोक्ता दोषाः - दूषणान्यविहारपक्षे मासकल्पेन विहाराभ्युपगमाभावे इति । अथ कदाचिद् दुर्भिक्षादिकालदोष-संयमाननुगुणत्वा दिक्षेत्र दोष शरीराननुकूल भक्तला मादिद्रव्यदोष-ग्लानत्वज्ञानहान्यादिमाashvant यद्यप्येष मासकल्पो न वहिवृत्या क्रियते तथाप्यवश्यम्भावेन भावतो वसतिसंस्तारकव्यत्ययादिभिः क्रियमाणत्वादवस्थितः, यदुक्तम् * कालाइदोसओ जड़ न दव्वओ एस कीरई नियमा। भावेण उ कायव्वो संथारगवच्चयाईहिं ॥१॥" मध्यमजिनसाधूनां पुनरस्थितकः - अनवस्थितः एषः - मासकल्पो विज्ञेयो ज्ञातव्यः ऋजुप्रज्ञत्वेन तेषामfaaraस्थानेऽपि पूर्वोक्तदोषासम्भवात् । उक्तं च १ य-मु. पाकवृतावपि (१७३६) 'उ' इति पाठः ।। मुक्त्वा माकणं नास्त्यन्यः सूत्रे विहारः ★ कालादिदोषतो यदि न द्रव्यंत एष क्रियते । भावेन तु नियमात् संस्तारक व्यत्ययादिभिः कर्त्तव्यः ॥ १ ॥ ७८ द्वारे अस्थित कल्पः गाथा ६५१ ६५८ प्र.आ. १८६ 1148411
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy