________________
Singenie
RELAAAARANASIASTROMAINSANCHAR
७८ द्वा परिहारिक गाथा
प्र.आ. १८६
कर्म अत्र स्थिता-ऽस्थितकल्पविचारे विवक्षितं ततो मध्यमजिनमाधनामिदम्-औद्देशिक यमेव-साध्वादिप्रवचन- कमुहिश्य कृत-निर्वतितं सम्येव न कल्पते । इतिः वाक्यम प्राप्ती, शेषाणां तु-उद्दिष्टसाधुभ्योऽन्येषां तदौ- सारोद्धारे। देशिकं ग्रहीतु कल्पते । कम्मादेवमिन्याह- 'एषा' अनन्तरोक्ता 'मेर ति मर्यादा ऋजुप्राज्ञसाधन प्रज्ञासटीके
पनीयलोकश्विाधिकृत्य जिनेः कृतेतिकृत्वा । प्रथम-पश्चिमजिनतीर्थे तु यमुद्दिश्य कृतमाधाकर्म तत्तस्यापि न कल्पते शेषसाधनामपीति ॥६५३॥
पडिकमण' ति 'प्रतन्यते- सपडि' इत्यादि, मप्रतिक्रमणः उभयकालं षड्विधावश्यककरणयुक्तो धर्मः चारित्रधर्मः, पूर्वस्य च पश्चिमस्य च जिनम्य संबन्धिमाधूनाम् । मध्यमजिनसाधूनां तु कारणे-प्रति क्रमणविशोधनीयातिचाररूपे जाने-मान्पन्ने सति प्रतिक्रमणं कर्तव्यम् । कारणाभावे सर्वदाऽपि ते न प्रतिकामन्ति । अयमभिप्रायः-प्रथम-पश्चिमजिनसाधनामतिचागे भवतु वा मा वा तथाऽप्यवश्यतया प्रभाते प्रदोषे च षड्विधाऽऽवश्यकप्रतिक्रमणं गमनागमननद्यवतागदिषु च नियमेनेपिथिकाप्रतिक्रमणं कर्तव्यम् , ऋजुजड-चक्रजडतया तेषामुपकारित्वात् । 'मध्यमजिनमुनीनां पुनः प्रायेणातीचार एव न सम्भवति ऋजुप्रनत्वात्तेषाम् , अथ कथञ्चित्कदाचनापि सम्भवति तदा तत्क्षणादेव रोगचिकित्सोदाहरणेन प्रतिक्रमणमक्तरूपं कुर्वन्ति । यथा हि जातमात्र एव रोग चिकित्मा क्रियमाणा मुखावहा भवति, एवं तत्काल एवातीचारविशुद्धये विधीयमानं प्रतिक्रमणमपीति ॥६५४॥
प्रतन्यते-सप्रतिक्रमणः 'सपडि' इत्यादि, उभयकालं-मु. । तुलना-पञ्चाशकटीका १७॥३२॥ २ तुलना-पछाशकप्र. १७३३ ॥ ३ तुलना - पञ्चाशकप्र. १७॥३॥
॥५४३॥