________________
प्रवचनसारोद्धारे सटीके
संख्या
गाथा
६४७ प्र. . १८३
+
इह हि तत्तत्कालस्वमातादेव विविधाः पुरुषा भवन्ति-ऋजुजडा वक्रजडा ऋजुप्रज्ञाश्च । तत ऋजवः-शायरहितास्ते च ते जडाश्च-तथाविधोहापोहत्यपोहादुक्तमात्रार्थग्राहिण ऋजुजडा:-केऽपि प्रथमतीर्थकरसाधवः, । ते च नटावलोकनज्ञातेन ज्ञातव्या: | तथाहि-किल केचित् प्रथमतीर्थकरसाधवो विचारगोचराचिरेण वसतावागताः, पृष्टाश्च गुरुभिः-किमिति भोश्चिरायुश्मागताः ?, ते च ऋजुत्वादवोचन्-यथा नट नृत्यन्तमालोकयन्तो वयमस्थाम । ततो गुरुस्तानन्वशात्-यदुतरागादिनिबन्धन नटनृत्तावलोकनं मा पुनर्भवन्तो व्यधुः। तेऽपि तथैव गुरूणां गिरं प्रतिपेदिरे । अपरेधुश्च तथैव ते गुरुपृष्टा व्यजिज्ञपन्-यथा नटी नृत्यन्तों पश्यन्तः स्थिताः । गुरुभिर्भणितं-ननु पूर्वमेव निषिद्धा य॒यम् , अथ ते ऋजुजडत्वाचुः-नटनृत्तनिरीक्षणं भवद्भिः प्रत्यषिद्धयत न नटीनृत्तनिरीक्षणमिति । नटे हि निषिद्धे रागनिमित्तत्वानटी निषिद्ध वेति प्रत्येतु तैर्न शक्तिमिति ते ऋजुजडाः ।।
तथा बजडाः-शठत्व-मुग्धत्वधर्मद्वययुक्ताः, केचिच्चरमतीर्थकरसाधवः । तेऽप्येवमेव नटदृष्टान्तेनावगन्तव्याः । नवरं ते तथैव गुरुभिर्निवारिताः पुनरन्यदा नटीनिरीक्षणं कृत्वा चिरादागताः पृष्टाश्व वक्रजडत्वादुदरबाधाद्यसदुत्तराणि वितेरुः । निर्वन्धेन च गुरुभिः पृष्टा अस्माभिनटी निरीक्षितेत्युक्तवन्तः । सुतरामुपालब्धाश्च सन्तो जडत्वाकथितवन्तो-यथा नट एव न द्रष्टव्य इत्यस्माभिरधिगतमासीदिति । ।
तथा आर्जवयुक्ताः प्रज्ञावन्तश्च ऋजुप्रज्ञा मध्यमद्वाविंशतिजिनसाधवो महाविदेहवतिनश्च, तेऽपि तथैव नटोदाहरणादेव प्रतिपत्तव्याः, ते हि किल तथैव नटनिरीक्षणं 'प्रति प्रतिषिद्धाः प्राज्ञत्वात्स्वयं १ प्रति सिद्धा सं.॥
.
!
LEASANAJATROOTHACitivitiinseminatin.
॥५३॥