________________
mlamIIAMARPALI
प्रवचन
सारोदारे
७२ द्वारे महाव्रत
सटीके
s
पीडापरिहारार्थ याचनीयानीति तृतीया ३ । तथाऽनुज्ञाप्य गुरुमन्य वा भुञ्जीत पानभोजनम् । अयमर्थ:सूत्रोक्तेन विधिना प्रासुकमेषणीयं लब्धमानीयालोचनापूर्व गुरवे निवेद्य गुरुणाऽनुज्ञातो मण्डल्यामेकको वाऽश्नीयात् । उपलक्षणमेतत् , अन्यदपि यत्किञ्चिदौधिकौपग्रहिकभेदमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातमेव भोक्तव्यम् , अन्यथाऽदत्तमेव परिभुक्तं स्यादिति चतुर्थी ४ । तथा समानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिका:-प्रतिपन्न शासनाः संविग्नाः साधवः, तेषा पूर्वपरिगृहीतक्षेत्राणामवग्रहं मासादिकालमानेन पञ्चकोशादिक्षेत्ररूपं याचित्वा स्थानादि कार्यम् , तदनुज्ञातं हि तत्र उपाश्रयादि समस्तं गृहणीयात् , अन्यथा चौर्य स्यादिति पञ्चमी ५ । एताम्तृतीयव्रतभावनाः पश्च ।।६३८॥
इदानी चतुर्थवतभावनाः प्रतिपाद्यन्ते-तत्र आहारे गुप्तः म्यात् न पुनः स्निग्धमतिमात्रं भुञ्जीत । यतो निरन्तरवृष्यस्निग्धमधुररसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवेत । अतिमात्राहारस्य तु न केवलं ब्रह्मव्रतविलोपविधायित्वाद्वर्जनं कायक्लेशकारित्वादपीति प्रथमा १ । तथा अविभूषितात्मा-विभूषाविरहिता, देहस्नान-विलेपनादिविविधविभूषानिरतो हि नितान्तमुद्रिक्तचित्ततया ब्रह्मविराधकः स्यादिति द्वितीया २ तथा स्त्रियं न निरीक्षेत, तदन्यतिरेकात्तदङ्गान्यपि बदन-स्तनप्रभृतीनि सस्पृहं न प्रेक्षेत । निरन्तरमनुगमवनिताब्यबविलोकने हि ब्रह्मबाधासम्भव इति तृतीया ३ | तथा स्त्रियं न संस्तुवीत-खिभिः सह परिचयं न कुर्यात् तत्संसक्तवसति-तदुपभुक्तशयनासनादिसेवनेन । अन्यथा ब्रह्मवतभङ्गः स्यादिति चतुर्थी ४ । तथा बुद्धः-अवगततत्त्वो 'मुनि:-साधुः क्षुद्राम्-अप्रशस्यां ब्रह्मचर्यप्रस्तावात स्त्रीविषयां का
१ मुनिः क्षुद्रां-मु.॥
प्र.आ.
१७९
RamecipamgeomeeMARRIDEnliminisHOOMAAIAMNAIDAIRitieminidutopwipimo