________________
प्रवचनसारोद्वारे
सटीके
॥५१६॥
तस्यापि संवेगासमुल्लासकं धर्मम्, तथा तस्यानशनिनः प्रभावनामतिशायिनीं श्रावकलोकैः क्रियमाणां दृष्ट्वा केचिद् दुरात्मानस्तामसहमानाः 'सर्वज्ञमतनिराकरणाय वाददानायोपतिष्ठन्ते ततस्तेषां तिरस्करणाय वादिनोवादकात्वारः प्रमाणप्रविणाः प्रगुणीभूतास्तिष्ठन्ति । तथाऽग्रद्वारमूले प्रत्यनीकादिप्रवेशरक्षार्थ मुनिचतुष्कं चत्वारः साधवः सामथ्योपेतास्तिष्ठन्ति । तथा प्रत्याख्यातेऽप्याहारे परीषहपीडितो यद्यमौ कथमप्याहारमभिपति तदा मा कथचिदसौ प्रत्यनीकदेवताधिष्ठितो याचते इति परीक्षार्थं प्रथमतस्तावत्पृयते यथा - कस्त्वं गीतार्थो वा अगीतार्थो वा १, प्रतिपन्नानशन एवमेव वा ? इदानीं दिनं वर्तते रात्रित्यादि । एवं च पृष्टे यद्यसौ प्रस्तुतं वक्ति तदा ज्ञायते न देवताधिष्ठितः किन्तु परीपपीडित इति ज्ञात्वा समाधिसम्पादनाय किञ्चिदाहारो दीयते । ततस्तद्धलेन परीपदान् परिभूय प्रस्तुतपारगामी भवति । अथ वेदनार्दित आहारं न करोति तदाऽऽर्त्तध्यानोपगतस्तिर्यक्षु भवनपतिव्यन्तरेषु वा समुत्पद्येत । प्रत्यनीकेषु च भवनपति व्यन्तरेषुत्पन्नः कोपवशात्कदाचित्पाश्चात्ययतीनामुपद्रवमपि कुर्यादिति, ततश्चत्वारो मुनयस्तस्यानशनिन उचितं-योग्यम् आहारं 'निभालयन्ति' गवेपयन्ति । तथा चत्वारो देहदाहाद्युपशमसमर्थ पानीयमन्वेषयन्ति । तथा चत्वार उच्चारं पुरीषं परिष्ठापयन्ति परित्यजन्ति । तथा चत्वारः प्रश्रवणं-सूत्रं परिष्ठापयन्ति । तथा चत्वारो वहिर्भागे जनानां पुरतश्चेतश्चमत्कारकारिणं मनोहारिणं धर्मं कथयन्ति । तथा चत्वारarraft दिक्षु क्षुद्रोपद्रवरक्षकाः सहस्रयोधिनो महामल्ला मुनयस्तिष्ठन्ति । क्षुद्रोपद्रवनिवारणार्थ - hereafter faतीत्यर्थः ॥६३१-६३४॥
१. सर्वेशमति० जे. ॥ २ प्रतिपन्नाशन सु. ॥
७१ द्वारे नियमकाः
गाथा:
६२९
६३५
प्र. आ. १७७
॥५१६५