________________
-
प्रवचन___ सारोद्वारे
सटीके
६९ द्वारे परिहारविशुद्धिः गाथा ६०२.
॥४९७॥
नोत्सपिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न सम्भवन्त्येव, महाविदेहक्षेत्रे तेषामसम्भवात् ।।
तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमान एव सम्भवति न तूच्छेदे नानुत्पत्या वा तदमावे जातिस्मरणादिना, उक्तं च
A "तित्थेत्ति नियमओ च्चिय होइ स तित्थंमि न उण तदभावे ।
विगएऽणुप्पण्णे वा जाईसरणाइएहिं तु ॥१॥" (पञ्चवस्तुकः १४६१) ३ । पर्यायद्वारे पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च, एकैकोऽपि द्विधा- 'जघन्यत उत्कृष्टतच, तत्र गृहस्थपायो जघन्यत एकोनत्रिंशद्वर्षाणि यतिपर्यायो विंशतिः, द्वावपि चोत्कर्षतो देशोनपूर्वकोटीप्रमाणो, उक्तं च पञ्चवस्तुके
*"एयस्स एस नेओ गिहिपरियाओ जहन्न गुणतीसा । जइपरियाओ वीसा दोसुवि उक्कोस देसूणा ॥१॥ [गाथा १४९४] यत्पुनरत्र मूत्रे
"जम्मेण तीसवरिसो परियाएण गुणवीसवरिसो य ।
परिहारं पट्टविउं कप्पड़ मणुओ हु एरिसओ ॥१॥" तीर्थ इति नियमत एव भवति स तीर्थे नतु तदमावे। विगतेऽनुत्पन्ने वा जातिस्मरणादिकस्तु ॥१॥ १ जघन्य उत्कृष्टश्व-मु.वि.॥२ जघन्य एकोन० मु.वि. एतस्यैष शेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् । यतिपर्यायो विंशतिः द्वयोरप्युत्कतो देशोना (पूर्वकोटी)॥१॥ ३ अत्रैव ४९२ तमपृष्ठे ४ टिप्पनकम् द्रष्टव्यम् ॥
प्र. आ. १७१