________________
प्रवचन
सारोद्धारे
सटीके
॥४९५॥
कल्पं गच्छ वा समुपयान्ति ते इत्वराः, ये पुनः कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपद्यन्ते ते rracefuकाः । उक्तं च
★ "इतर घेरकप्पे जिणकप्पे आवकहिय" ति, [तुलना- पञ्चवस्तुकः १५२४, बृ. क. भा. १४२६], अत्र स्थविरकल्पग्रहणमुपलक्षणम्, स्वकल्पे चेति द्रष्टव्यम्, इह चेत्वराणां कल्पप्रभावादेव देव मानुष- तिर्यग्योनिककृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविपद्याश्व वेदना न प्रादुर्भवन्ति, याव कथिकानां तु सम्भवेयुरपि । ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति । जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति, उक्तं च
" इत्तरियासम्गा आयंका वेयणा य न हवंति । आवकहियाण भइया " [पञ्चवस्तुकः १५२६, बृ. क. भा. १४२८ ] इति ।
अथायं कन्पो यस्य समीपे प्रतिपद्यते तं सार्धगाथया प्राह - "पडिवज्जे "त्यादि प्रतिपद्यमानकाःपारिहारिककल्पं प्रतिपत्तुकामाः पुनर्जिनसकाशे-तीर्थकरपार्श्वे प्रतिपद्यन्ते । तीर्थकर समीपा सेवकस्य वा पार्श्व, येनैततपस्तीर्थकरसमीपे प्रतिपन्नपूर्वं भवति तत्सकाशे वा प्रतिपद्यन्ते इत्यर्थः । एतद्द्वयं मुक्त्वा न पुनरन्यस्य पार्श्वे प्रतिपत्तिरिति । एतेषां यच्चरणं चारित्रं तत्परिहारविशुद्धिकमभिधीयते । परिहारेण - तपोविशेषेण विशुद्धिः-निर्मलता यस्मिन् चारित्रे इति व्युत्पत्तेः ।। ६०९-६१० ।।
★ इत्वरा: स्थविरकल्पे यावत्कथिका जिनकल्पे ॥
फ्र इत्वराणामुपसर्गा भावड्डा वेदनाश्च न भवन्ति । यावत्कथिकानां भाज्याः ॥
६९. द्वारे परिहारविशुद्धिः
गाथा
६०२०
६१०
प्र.आ.
१७०
॥४९५