SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके ॥४९३ ॥ कायिकाः- आसेवितविवक्षिततपोविशेषाः इह च नवको गणः- चत्वारो निर्विशमानकाश्चत्वारश्वानुचारिण एकः कल्पस्थितो वाचनाचार्य:, यद्यपि च सर्वेऽपि श्रुतातिशयसंपन्नास्तथापि कल्पत्वात्तेषामेकः कश्चित् कल्पस्थितोsaस्थाप्यते । तेषां च परिहारिकाणां निर्विशमान-निर्विष्टकायिकानां तपस्त्रिधा - जघन्यं मष्टं च तच्च त्रिfearfi शीतकाले उष्णकाले वर्षाकाले च प्रत्येकं भणितं धीरेतीर्थक्रुद्भिरिति ॥ ६०२ | तत्र ग्रीष्मकाले तप आह- 'तत्र' तेषु त्रिषु कालेषु मध्ये ग्रीष्मे - उष्णकालेऽतिरूत्वाज्जघन्यं तपश्चतुर्थम् - एक उपवासः, मध्यमं पुनः षष्टं - द्वावुपवासी, अष्टमं त्रय उपवासा उत्कृष्टं तपो भवति । तपः शब्दस्य सूत्रे सर्वत्र प्राकृतत्वात् पुंस्त्वम् । इत उर्ध्व शिशिरे शीतकाले तपः प्रवक्ष्यामि ||६०३|| तदेवाह - शिशिरे - शीतकाले ग्रीष्मतः किञ्चित्साधारणे पुनर्जघन्यादि - जघन्य मध्यमोत्कृष्टं यथाक्रमं पलादिदशमपर्यन्तं तपो भवति । कोऽर्थः १ - जघन्यं षष्ठम् मध्यममष्टमम् उत्कृष्टं दशममुपवासचतुष्टयलक्षणमिति । तथा वर्षासु साधारणे कालेऽष्टमादिद्वादशपर्यन्तं क्रमेण जघन्य मध्यमोत्कृष्टं तपो ज्ञेयम् । कोऽर्थः ? - जघन्यम् अष्टमम् मध्यमं दशमम्, उत्कृष्टं च द्वादशमुपवासपञ्चकलक्षणं तप इति ॥ ६०४ || ६९ द्वारे परिहारविशुद्धिः गाथा ६०२ ६१० प्र. आ. १६९ पारण त्रिष्वपि कालेषु - ग्रीष्म-शीत- वर्षालक्षणेषु तेषामाचाम्लं भवति । तथा संसृष्टादयः सप्त भिक्षा भवन्ति । तत्र पञ्चसु उत्तरासु उद्घृतादिषु ग्रहो - ग्रहणम् संसृष्टाऽ-संसृष्टे आये द्वे भिक्षे वर्जयित्वा उद्धृतादयः पञ्चैव ग्रहीया इत्यर्थः । पुनरपि विवचितदिनेऽन्त्यानां पञ्चानां मध्ये द्वयोरभिग्रहः-अद्य मया द्वे एव विवक्षिते भिक्षे ग्राहूये इत्येवस्वरूपः । तत्राप्येका भक्ते एका च पानके इति । इदं चतुर्णां ॥४९३॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy