________________
प्रवचन
सारोद्धारे
सटीके
॥४९०॥
नन्दनवनं गच्छति द्वितीयेन पण्डकत्रनम्, तत्र चैत्यानि वंदित्वा ततः प्रतिनिवर्तमान एकेनैवोत्पातेन स्वस्थानमायाति ॥ ३००॥
विद्याचारणो हि विद्यावशात् भवति । विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्त्तमानस्य शक्त्यतिशय संभवात् एकेनैवोत्पातेन स्वस्थानागमनमिति । एतच्च चारणभेदद्वयमुपलक्षणम्, 'अन्येऽपि बहवचारणा भवन्ति, तद्यथा-आकाशगामिनः पर्यङ्कासनसन्निविष्टाः कायोत्सर्गस्थिता वा पादोत्क्षेप निक्षेपरहिता व्योमचारिणः । अपरे वापी- सरित्समुद्रादिषु जलमुपेत्या कायिकजीवानविराधयन्तो जले मात्र पावनिक्षेपकाला जलचारणाः । अपरे भ्रुव उपरि चतुरङ्गुलप्रमिते आकाशे जोत्क्षेप निक्षेपनिपुणा जङ्घाचारणाः । अन्ये नानाद्रुम लता गुन्म-पुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराघयन्तः कुसुमदलपटलमवलम्बमानाः पुष्पचारणाः । अपरे चतुर्योजनशतोच्छ्रितस्य निपधस्य नीलस्य च गिरेटच्छनां श्रेणिमुपादाय पर्यवो वा पादपूर्वकं उत्तरणावतरणनिपुणाः श्रेणिचारणाः । अन्येऽग्निशिखामुपादाय तेजस्कायिकानविराधयन्तः स्वयमदह्यमानाः पादविहारनिपुणा अग्निशिखाचारणाः । अपरे धूमवर्ति तिरश्रीनामृदुर्वगामिनीं वाऽऽलयास्खलितगमनास्कन्दिनो धूमचारणाः । कुब्जवृक्षान्तरालभाविनमः प्रदेशेषु कुब्ज वृत्तादिसम्बद्ध मर्कटकतत्त्वालम्बनतः पादोत्क्षेप निक्षेपक्षमा मर्कटकतन्तूनच्छिदन्तो यान्तो मर्कट कतन्तु चारणाः । चन्द्रा ऽर्कग्रह-नक्षत्राद्यन्यतमज्योतीरश्मिसम्बन्धेन त्रीव चरणचङ्कमणप्रवणा ज्योतीरश्मिचारणाः । प्रतिलोमानुलोमवृत्तिषु नानादिग्मुखोन्मुखेषु मारुतेषु तत्प्रदेशश्रेणिमुपादाय गतिमस्खलित१. तुलनार्थे विशेषार्थं द्रष्टव्या योगशास्त्रटीका ।। ११४९ ॥
६८ द्वारे चारणाः
गाथा
५९७
६०१
प्र. आ. १६८
॥४९०॥