________________
प्रवचनसारोड सटीके
६८द्वारे |चारणाः गाथा
॥४८॥
प्र.
आ.
'अइसये' त्यादिगाथापञ्चकम् , चरण-गमनं तद्विद्यते येषां ते चारणाः, 'ज्योत्स्नादिभ्योऽण' (पा०५-२.१३ वा०) इति मत्वर्थीयोऽण प्रत्ययः । तत्र गमनमन्येषामपि मुनीनामस्ति ततो विशेषणान्यथा नुपपत्त्या चरणमिह विशिष्टं गमनमागमनं चाभिगद्यते । अत एवातिशायने मत्वर्थीयोऽयम, यथा रूपवती कन्येत्यत्र । ततोऽतिशयचरणसमर्था-अतिशयगमनागमनलब्धिसम्पन्नाचारणाः । तेच द्विमेदा:-जालाचारणा विद्याचारणाश्च । तत्र ये चारित्र-तपोविशेषप्रमावतः समुद्भुतगमनागमनविषयलब्धिसम्पन्नास्ते जङ्घाचारणाः । ये पुनर्विद्यावशतः समुत्पनगमनागमनलब्धयस्ते विद्याचारणाः । जङ्घाचारणा रुचकचरद्वीप यावद्गन्तु समर्थाः विद्याचारणाश्च नन्दीश्वरम् , तत्र जलाचारणा यत्र कुत्रापि गन्तुमिच्छवस्तत्र रविकरानपि निश्रीकृत्य गच्छन्ति विद्याचारणास्त्वेवमेव ॥५९७||
जङ्घाचारणश्च रुचकवरद्वीपं गच्छन्नेकेनैवोत्यातेन गच्छति, प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानमिति त्रय उत्पाताः ॥५६॥
यदि पुनरुशिखरं जिंगमिषुस्तदा प्रथमेनैवोत्पातेन पण्डकवनमधिरोहति, प्रतिनिवर्तमानम्त्वेकेनोत्पातेन नन्दनवनमागच्छति, द्वितीयेन स्वस्थानमिति, जङ्घाचारणो हि चारित्रातिशयप्रभावतो भवति । ततो लब्ध्युपजीवने औत्सुक्यमावतः प्रमादसम्भवाचारित्रातिशयनिबन्धना लब्धिरपहीयते । ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमायाति ॥५६६ ..
___ विद्याचारणः पुनः प्रथमेनोत्पातेन मानुषोत्तरपर्वतं गच्छति, द्वितीयेन तु नन्दीश्वरम् , तत्र च गत्वा चैत्यानि बन्दते, ततः प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति । तथा मेरु गच्छन् प्रथमेनोत्पातेन
॥४८९॥