SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ROSHASOUR प्रवचनसारोद्धारे, सटीके ६७ द्वारे करणसप्लती अभिग्रहाः गाथा ५९६ प्र.आ. ।।४८७॥ खनप्रमार्जनादिसमयोक्तक्रियाकलापपुरःसरं शयनादि साधुना विधेयम्, ततः शयनासननिक्षेपादानादिषु स्वच्छन्दचेष्टापरिहारेण नियता या कायचेष्टा सा द्वितीया कायगुप्तिरिति ॥५९५॥ इदानीमभिग्रहानाह दच्चे विते काले भावे य अभिग्गहा विणिहिट्टा । ते पुण अणेगभेया करणस्स इमं सहवं तु ॥१९॥ 'दन्वे गाहा' द्रव्ये क्षेत्रे काले भावे वाऽभिग्रहा विनिर्दिष्टाः-कथिताः जिनैः, ते पुनः सर्वेऽप्यनेकमेदाः, यथा त्रैलोक्यस्वामिना श्रीमन्महावीरेण छद्मस्थचर्यायां विहरता कौशाम्ब्या गृहीताः । तत्र द्रव्यामिग्रहो यद्यहं कुल्माफ्याकुलान् सूपैंककोणे स्थितान् लप्स्ये, तथा क्षेत्राभिग्रहो निगडनियन्त्रितचरणा यद्येकं पादमुदुम्बरस्य मध्ये द्वितीयं च बहिस्तात् दात्री करिष्यति, तथा कालाभिग्रहो यदि दिवसद्वितीयपौरुष्याम् अतिक्रान्तायां दास्यति, तथा भावाभिग्रहो यदि मुण्डितशिरा रुदती सती सा दास्यति तदाऽहं भिक्षा गृहीष्यामि नान्यथेति । एवंविधाभिग्रह भगवतः षण्मासाः पञ्चदिवसोनास्तपस्यतः सञ्जाताः इत्यनया दिशा द्रव्याघभिग्रहा विज्ञेयाः॥ करणस्येदम्-उक्तप्रकारेण स्वरूपमिति, अस्यापि करणस्य सप्ततिभेदान् श्रीगुरवः कथयन्ति । ते चैवम्-आधाकर्मादयो द्विचत्वारिंशदपि दोषाः पिण्ड-शय्या-वस्त्र पात्र लक्षणवस्तुचतुष्टयविषयत्वेन चत्वार एव गण्यन्ते । समितयः पञ्च, भावना द्वादश, प्रतिमा अपि द्वादश, इन्द्रियनिरोधाः पञ्च, प्रतिलेखनाः पञ्चविंशतिः, गुप्तयस्तित्रा, अभिग्रहाश्चत्वार इति सर्वमीलने च सप्ततिः ।। ॥४८७॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy