________________
३७द्वारे
प्रवचनसारोद्धारे सटीके
करणसप्ततो
गुप्तयः गाथा
॥४८६।।
वक्तव्यमित्यभिग्रहकरणमेका बामगुप्तिः, चेष्टाविशेषेण हि निजप्रयोजनानि सूचयतो मौनकरणाभिग्रहो निष्फल एवेति, तथा वाचनप्रच्छनपरपृष्टार्थव्याकरणादिषु लोकागमाविरोधेन मुखपोतिकाच्छादितमुखकमलस्य भाषमाणस्यापि वाग्वृत्तनियन्त्रणं द्वितीया बाग्गुप्तिः, आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमिती तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिमापासमित्योअंदा. यदाहुः
"समिओ नियमा गुत्तो गुत्तो समियत्तणमि भयाणिज्जो । कुसलवयमुदीरंतो जं वइगुत्तोचि समिओऽवि ॥॥" [वहत्कल्पभाष्य १४५१, निशीधभाष्य ३७]
कायगुप्तिद्वेधा-चेष्टानिवृत्तिलक्षणा यथागमचेष्टानियमलक्षणा च, तत्र दिव्यमानुपायुपसर्गसद्भावेऽपि क्षुत्पिपासादिपरीपहादिसम्भवेऽपि च यत्कायोत्सर्गकरणादिना कायस्य निश्चलताकरणं सर्वयोगनिरोधावस्थायां च सर्वथा यत्काय चेष्टानिरोधनं सा प्रथमा कायगुप्तिः, तथा गुरुप्रच्छनशरीरसंस्तारकभूम्यादिप्रतिले
प्र.आ.
१६७
mciation
१ अस्य क्षेमकीर्तिमूरिकृता व्याख्या: "इह समितयः प्रवीचाररूपा इष्यन्ते, गुप्यस्तु प्रवीचारा-प्रवीचारोमयस्वरूयाः । प्रविचारो नाम-कायको बाचिको वा व्यापारः। ततो यः 'समित:' सम्यग्गमन-माषणादि चेष्टायांप्रवृत्तः स नियमाद् 'गुप्त' गुप्तियुक्तो मन्तव्यः, यस्तु गुप्रः स समितत्वे 'भक्तव्यः' विकरूपकीयः। तत्र समितः कथ नियमादु गुप्ता ? इत्याह-कुशलां निरषद्यादिगुणोपेतां वाचमुदीरयन् यद् यस्माद बाक्समितोऽपि गुप्तोऽपि । किमुक्तं भवति यः सम्य गनुधिचिन्त्य निरबद्या भाषां भाषते समाषासमितोऽपि वाग्गुप्तोपि च भवति, गुप्तेःप्रवीचाररूपतयाऽप्यमिधानात; मतः समितो नियमादु गुप्त इति ।। ४४५१॥ इति वृ. क.मा.टीका पू०१२०१ तः ।।
Rassasasa
A