SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे सटीके ६७ द्वारे करणसप्ततौ ॥४८॥ गुप्तयः भवति, द्वे पूर्वोक्ते एव तृतीया तु मध्याह्न भवति । तथा ऋतुबद्धे वर्षासु वा कुन्थुप्रभृतिभिः प्राणिभिः संसक्ती सत्यां बहुशोऽपि वसति प्रमार्जयेन् , 'चशब्दो विकल्पप्रदर्शनार्थः । विकल्पश्चायं-यदि संसक्ताऽपि वसतिः पूर्वोक्तप्रमार्जनाप्रमाणेनेवासंसक्ता भवति ततो नातिरिक्ता प्रमार्जना, नो चेत्तदा बहुशोऽपि प्रमार्जना कर्तव्या। अथ बहुशो वसतेः प्रमार्जने प्राणिनामतिसट्टो भवति तदाऽन्यत्र-वसत्यन्तरे ग्रामान्तरे वा गच्छन्तीति ॥५९४॥ अथ गतीगह मणगुत्तिमाझ्याओ गुत्तीओ तिनिहुति नायव्वा । __ अकुसलनिवित्तिरूवा कुसलपवित्तिस्सरूवा य ॥१९॥ 'मणगुत्ति' गाहा, मनोगुप्त्यादयो-मनोगुप्ति-चाम्गुप्ति-कायगुप्तिलक्षणा गुप्तयस्तिस्रो भवन्ति ज्ञातव्याः, तासां स्वरूपमाह-'अकुशलनिवृत्तिरूपा अकुशलानाम्-अशुभाना मनो-वचन-कायाना निवृत्ति:निरोधस्तद्रूपाः, 'कुशलप्रवृत्तिस्वरूपाश्च' कुशलाना-शुभाना मनो-वचन-कायानां प्रवृत्तिः-व्यापारणं तत्स्वरूपाश्च ता इति । अयमभिप्राय:-इह मनोगुप्तिस्त्रिधा- 'आत्तेरौद्रध्यानानुबन्धिकल्पनानिचयवियोग प्रथमा, शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुचन्धिनी माध्यस्थ्यपरिणतिद्वितीया, कुशला-कुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविनी स्वात्मारामता तृतीयेति, वाग्गुप्तिद्धिभेदा- 'मुखनयनभ्र विकारामुल्याच्छोटनोर्वीभावकासितहुंकृतलोष्ठपणादीनामर्थसूचिकानां चेष्टानां परिहारेणाध मया न १ वा शन्दी-जे.सं.॥२ तुलना-योगशास्त्रटीका १४१॥ ३ तुलना-योगशास्त्रटीका ॥४॥ गाथा ५९५ प्र.आ. १६७ ॥४८॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy