________________
७ द्वारे
करणसमतों प्रतिलेखना गाथा
प्र.आ.
।
__ अत्र 'परिनि' ति अनशनिन उपधिम्, आचार्योपधिप्रतिलेखनानन्तरं 'प्रत्युपेक्षते, शेषं सुगमम् प्ररचनसारोद्धारे। सटीके
अथ द्वितीय-तृतीयप्रतिलेखनास्वरूपमाह-'उघगरण' गाहा दिनस्य प्रहरत्रिके अतिक्रान्ते सति उप
करणचतुर्दशकं स्थविरकल्पिकसत्कौधिकस्वरूपं प्रत्युपेक्षते । तत्र प्रथम मुखवत्रिका, ततश्चोलपट्टः, ततो ॥४०४॥ गोच्छकः, ततः पात्रप्रतिलेखनिका, ततः पात्रबन्धः, ततः पटलानि, ततो रजखाणम् , ततः पात्रस्थापनम् ,
ततो मात्रकम् , ततः पतद्ग्रहः, ततो रजोहरणम् , ततः कल्पत्रिकमिति । उपलक्षणमेतत् , ततोऽन्योऽप्योपग्रहिकोपधिः प्रत्युपेक्षणीय इति । तथा उद्घाटपौरुभ्यां सप्तविधपात्रनियोगप्रत्युपेक्षा भवति । तत्रासने समुपविष्टः प्रथमं मुखवत्रिका प्रत्युपेक्ष्य गोच्छक प्रत्युपेक्षते, ततः पटलानि, ततः पात्रकेमरिकाम् , ततः पात्रबन्धम् ततो रजखाणम् , ततः पात्रम् , ततः पात्रस्थापनमिति, प्रत्युपेक्षाविधिस्तु विम्तरभयान लिख्यते, तत ओपनियुक्तिपञ्चवस्तुकादेः स्वयमेवाक्सेयः ॥५९२॥
अत्रैव विशेषमाह-'पडिलेहिऊण' गाहा गोसे-प्रत्युषसि मुखवत्रिकादिलक्षणं पूर्वोक्तमुपधिं प्रत्युपेक्ष्य, तदनु वसतेः-यतिनिवासलमणाया उपयुक्तेन साधुना प्रमार्जना विधेया। अपराहणे पुनः प्रथम बसतेः प्रमार्जना पश्चात्प्रत्युपेक्षणा उपधेरिति ।।५९३॥
यत्रापि बसते वसंसक्तिन भवति तत्रापि ऋतुबद्धे काले वै प्रमार्जने विधेये प्रत्युषसि अपराहणे | च द्वौ बारी वसतिरवश्यतया प्रमार्जनीयेति भावः 'वर्षासु' वर्षाकाले पुनस्तृतीयाऽपि वसतेः प्रमार्जना
. प्रत्युपेक्षेत-सं॥
४८४||