________________
प्रवचन
६७ द्वारे
सारोद्धारे
सटीके
भावनाः गाथा
॥४६६॥
प्र.आ.
अथ बोधिदुर्लभत्वभावनापृथ्वी-नीर हुताश-वायु-तरुषु क्लिष्टैनिजैः कर्मभिर्धाम्यन् भीमभवे ऽत्र पुद्गलपरावर्ताननन्तानहो । जीवः काममकामनिर्जरतया सम्प्राप्य पुण्यं शुभम् , प्राप्नोति त्रसरूपतां कथमपि द्वि-त्रीन्द्रियाद्यामिह ॥१॥ आर्यक्षेत्र सुजाति-सत्कूलवपुर्नीरोगतासम्पदो, राज्यं प्राज्यसुखं च कर्मलघुताहेतोरवाप्नोत्ययम् । . तत्वातत्वविवेचनैककुशला बोधिं न तु प्राप्तवान् , कुत्राप्यनयमोक्षसौख्यजननीं श्रीसर्वविद्देशिताम् ।। २ ॥
पोगिता यदि भवेदेकदाऽप्यत्र जन्तुभिः । इयत्कालं न तेषां तद्भवे पर्यटनं भवेत् ।। ३ ।। द्रव्यचारित्रमप्येतै हुशः समवाप्यत । सज्ज्ञानकारिणी क्वापि, न तु बोधिः कदाचन ॥ ४ ॥ येऽसिध्यन ये च सिद्धयन्ति,ये सेत्स्यन्ति च केचन । ते सर्वे बोधिमाहात्म्यात्तस्माद्रोधिरुपास्यताम् ॥५॥११॥
अथ धर्मकथकोऽहनिति भावनाअर्हन्तः केवलालोकालोकितालोकलोककाः । यथार्थ धर्ममाख्यातु पटिष्ठा न पुनः परे ॥ १॥ वीतरागा हि सर्वत्र, परार्थकरणोद्यताः । न कुत्राप्यनृतं व युस्ततस्तद्धर्मसत्यता ॥ २ ॥ शान्त्यादिभेद धर्म च दशधा जगदुर्जिनाः । यं कुर्वन् विधिना जन्तुर्भवाब्धौ न निमज्जति ॥ ३ ॥ पूर्वा-ऽपरविरुद्धानि, हिंसादेः कारकाणि च । वचांसि चित्ररूपाणि, व्याकुर्वद्भिनिजेच्छया ॥ ४ ॥ कुतीथिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? ॥५॥ यश्च तत्समये क्वापि, दया-सत्यादिपोषणम् । दृश्यते तद्वचोमात्र बुधैज्ञेयं न तत्त्वतः ॥ ६ ॥