SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके ||४६५|| ४७ ॥ ४८ ॥ ४६ ॥ ५० ॥ ५३ ।। रज्जुषट्के ततः स्यातामेकेन्द्रावारणा ऽच्युतौ । चन्द्रवद्वतु लावेवं, कल्पा द्वादश कीर्तिताः ॥ dearersisterस्त्रयो मध्यमकास्तथा । त्रयश्रोपरितनाः स्युरिति ग्रैवेयका नव ॥ अनुत्तरविमानानि तदुद्ध पश्च तत्र च । प्राच्यां विजयमपाच्या वैजयन्तं प्रचक्षते ॥ प्रतीच्यां तु जयन्ताख्यमुदीच्यामपराजितम् । सर्वार्थसिद्धं तन्मध्ये, सर्वोत्तममुदीरितम् ॥ स्थिति प्रभाव - लेश्याभिर्विशुद्धयवधिदीप्तिभीः । सुखादिभिश्च सौधर्माद्यावत्सर्वार्थसिद्धिकम् ।। ५१ ।। पूर्व पूर्व त्रिदशेभ्यस्तेऽधिका उत्तरोत्तरे 1 - हीरा देह-गति गर्व-परिग्रहैः ॥ ५२ ॥ घनोदधिप्रतिष्ठाना, विमानाः कल्पयोर्द्वयोः । त्रिए वायुप्रतिष्ठानास्त्रिषु वायूधिस्थिताः ।। ते व्योमविहितस्थानाः सर्वेऽप्युपरिवर्तिनः । इत्युद्भूर्वलोक विमानप्रतिष्ठानविधिः स्मृतः ॥ सर्वार्थद्विसाद् द्वादशयोजनेषु हिमोज्ज्वला । योजनपश्चचत्वारिंशल्लक्षायाम विस्तरा ॥ मध्येऽष्टयोजनपिण्डा, शुद्धस्फटिक' निर्मला । सिद्धशिलेषत्प्राग्भारा, प्रसिद्धा जिनशासने ॥ तस्या उपरि गव्यूत्रितयेऽतिगते सति । तुर्यगव्यूतषड्भागे, स्थिताः सिद्धा निरामयाः ॥ ५७ ॥ अनन्तसुख-विज्ञान-वीर्य -सदर्शनाः सदा । लोकान्तस्पर्शिनोऽन्योऽन्यावगाढाः शाश्वताश्च ते ॥ ५८ ॥ एवं भव्यजनस्य लोकविषयामभ्यस्यतो भावनाम्, संसारैकनिबन्धने न विषयग्रामे मनो धावति । किन्त्वन्यान्यपदार्थभावनसमुन्मीलत्प्रबोधोद्धुरम् धर्मध्यान विधाविह स्थिरतरं तञ्जायते संततम् ॥५६॥ १० ५४ ॥ ५५ ॥ ५६ ॥ १ निर्मिताः - जे. ॥ २ एनां मु.। धर्म संग्रहटीकायामपि [ मा. २/पृ. १३५ ] एवं इति पाठः ॥ " ६७ द्वारे करण सप्त भावनाः गाथा ५७२ ५७३ प्र.आ. १६० | ॥४६५॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy