________________
प्रवचनसारोद्वारे
सटीके
||४६१॥
प्रत्येकमपि स द्वेधा, द्रव्य- भावविभेदतः । यत्कर्मपुद्गलादानमात्मन्याश्रवतो भवेत् ॥ ३ ॥ एतस्य सर्व देशाभ्यां, छेदनं द्रव्यसंवरः । भवहेतुक्रियायास्तु त्यागोऽसौ भावसंवरः ॥ ४ ॥ युग्मम् । मिथ्यात्व कषायादीनामाश्रवाणां मनीषिभिः । निरोधाय प्रयोक्तव्या उपायाः प्रतिपन्थिनः ॥ ५ ॥ यथा-मिथ्यात्वमार्त्त-रौद्राख्यकुध्याने च सुवीर्जयेत् । दर्शनेनाकलङ्केन, शुभध्यानेन च क्रमात् || ६ || क्षान्त्या क्रोधं मृदुत्वेन, मानं मायामृजुत्वतः । सन्तोषेण तथा लोभं, निरुन्धीत महामतिः || ७ || शब्दादिविपयानिष्टानिष्टाचापि मान | राग-द्वेपप्रहाणेन, निशकुर्वीत कोविदः ।। ८ ।। य एतद्भावनासङ्गी, सौभाग्यं भजते नरः । एति स्वर्गापवर्गश्रीरवश्यं तस्य वश्यताम् ||२|| ८ | अथ निर्जराभावना
संसारहेतुभूताया, यः क्षयः कर्मसन्तते । निर्जरा सा पुनद्वेषा, सकामा कामभेदतः ॥ १ ॥ श्रमणेषु सकामा स्यादकामा शेषजन्तुषु । पाकः स्वत उपायाच्च, कर्मणां स्याद् यथाऽऽम्रवद् ।। २ ।। कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि, सकामा शमिनां मता ॥ ३ ॥ एकेन्द्रियादिजन्तून, सज्ज्ञानरहितात्मनाम् । शीतोष्णवृष्टि दहन-छेद-भेदादिभिः सदा ॥ ४ ॥ कष्टं वेदयमानानां यः शाटः कर्मणां भवेत् । अकामनिर्जरामेनामामनन्ति मनीषिणः ।। ५ ।। युग्मम् । तपःप्रभृतिभिवृद्धि, व्रजन्ती निर्जरा यतः । ममत्वं कर्म संसारं हन्यात्तां भावयन्ततः ॥ ६ ॥ ६ ॥
'अथ लोकस्वभावभावना
वैशाखस्थानस्थित कटिस्थ करयुगनराकृतिर्लोकः । भवति द्रव्यैः पूर्णः स्थित्युत्पत्ति-व्ययाक्रान्तैः ॥ १ ॥ १] युग्मपू- सं. नास्ति ॥ २ इमाः ५६ गाथाः धर्मसंप्रइटीकायाम [ मा. २ / पू. १३३ B तः ] उद्धृताः सन्ति ॥
६७ द्वारे करण समतो
भावनाः
गाथा
५७२
५७३
प्र. आ. १५९
||४६१॥